________________
२८७
यः शब्दतांगमशास्त्रवेत्ता, विशुद्धपश्चाचरणैः पवित्रः । आपञ्चमाङ्ग विधिनाढयोगः, सद्देशनाकारिषु चाग्रगण्यः ॥६॥ धैर्येण गाङ्गेयगिरिः सुधांशुः, सौम्येन गीवाणगुरुः सुबुद्धया । परार्थकारित्वगुणेन मेघः, सिन्धुश्च गम्भीरतयाऽभवद् यः ॥७॥ यः तत्वप्रश्नोत्तर-जैनगीते, सिद्धप्रभानामकशब्दशास्त्रम् । न्यायावतारे द्वयविंशिकायां वृत्ति तथाऽन्या व्यदधात् कृतीश्च ॥८॥ यं वत्सरे वेदहयाङ्कचन्द्र, (१८७४) सूयें पुरे सृरिपदेन पूज्यम् । व्यभूषयत् सङ्घकृतोत्सवेन, गुणोदधिः श्रीकमलाख्यसूरिः ॥९॥ पाचंयमानां च परःशतानां, श्रुतार्थिनां पत्तनमुख्यपुषु । पाण्मासिकीः सप्त जिनागमानां यो वाचना अर्पितवान श्रुतज्ञः ॥१०॥ नत्रादिमा संघति वैक्रमीये, भूम्यश्वनन्देन्दुमिते (१८७१) वितीर्णा । सुचारुजैनेन्द्रगृहेऽणहिल्ल-पुरे प्रतीते श्रुतवाचनका ॥११॥ द्रने तथा कप्पडवञ्जसझे, स्वजन्मना पूततमे द्वितीया । अहम्मदावादपुरे तृतीया, सद्वाचना जैनपुरीतिषित्ते ॥१२॥ जिनालयेगगममन्दिगद्य-विभूषिते सूर्यपुरे प्रसिद्ध । दत्ते चतुर्थी किल पश्चमी च, मनाहरे आगमवाचने द्वे ॥१३॥ षष्ठी च शत्रञ्जयतीर्थभूमौ, श्रीपादलिप्ताभिधरम्यपुर्याम् । दत्तान्तिमा मालवदेशरत्ने, ख्याते पुरे श्रीरतलामसञ्ज्ञे ॥१४॥ अन्यान्यसङ्घाटक सन्मुनीनां, सिद्धान्तबोधस्य विवर्धनाय । एवं वितीर्य श्रुतवाचनाली-मनुग्रहं यो व्यदधन् महान्तम् ॥१५॥ नियुक्तिभाष्यादियुत कृतान्त-माचारमुख्यं गणभृत्प्रणीतम् । यः शोधयित्वा स्वयमेव सम्यक, प्राकाशयत् शासनबद्धरागः ॥१६॥