________________
पूज्य गच्छाधिपति आचाय-श्रीमाणिक्यसागरसूरीश्वरप्रणीता
श्रीवर्धमानजिनागममन्दिर-प्रशस्ति : श्रीसिद्धभूभृत्तलहट्टिकास्थित समुन्नत देवविमानसन्निमम् । विलोक्यजैनागममन्दिरंवर प्रयाति का भव्यजनो मुदं नहि ॥१॥ सच्चतुःशिखरिचैत्यखार्णव-मानवदेवकुलिकाविभूषितम् ।
राजते गगनचुम्बि बन्धुरं यत्र शाश्वजिनावमन्दिरम् ॥२॥ सिद्धचक्रगवरमण्डलाखिल तीर्थकृद्गणधगदिमूर्तियुग । सिद्धचक्रगणभृद्गृह तथा तद् जिनागमगृह नकः स्तुते ॥युग्मम् विशाले श्रीतपागच्छे कल्पद्रुमपमे वरे ।
श्रेष्ठसाधुगणा शाखा समस्ति सागराभिधा ॥४॥ तत्राऽभवन् जिनेन्द्रस्य शासनस्य प्रभावकाः। मुनीश्वरा 'जयवीर-सागरा ज्ञानसागरा ॥५॥जवेरेति प्रसिद्धाः आसस्तेषां शिष्यरत्नाः श्रुतसं यमशालिनः ।
आगमोद्धारकाः सूरी-श्वरा आनन्दसागराः ॥६॥ यमुनीनां वाचनादि-सौकर्यार्थ स्वयं समे।
संशोध्य रम्यपत्रेषु प्रकाशिता जिनागमाः ॥७॥ सिद्धान्तवाचनाः सप्त पुरेषु पत्तनादिषु ।
श्रुतार्थिभ्यो मुनिभ्यो ये प्रायच्छन् ज्ञानवृद्धये ॥८॥