SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ योग [ ६६६ ] अतिगरिष्ठ भोज्यं च रुक्ष देहे न पच्यते । भक्षितं प्रचरं तेन देहपीडा ततो भवेत् ॥७४ देहे व्याधिः समुत्पन्ना अतीव प्राणघातिनी । तदीयभक्ति कर्त्तव्ये, श्रेष्ठिनस्ते समागताः ॥७५॥ तान् दृष्ट्वा मानसे स्वीये, व्यचिन्तयत्स साधुराट् । अहो संयम साम्राज्यं, मीलितं गुरुयोगतः ॥ ७६ ॥ ददति ये न मे भिक्षां, तेऽपि सेवासु चागताः । सेवां च तादृशीं दृष्ट्वा, जाता धर्मेषु रागता ॥७७ धन्योऽहं कृतकृत्योsहं, मानुष्यं सफलं मम । जैनधर्मस्य सम्प्राप्तिः, विना पुण्यं न जायते ॥ ७८ ॥৷ चिन्तामणिमहारत्नं, रङ्कगृहे न राजते। मादृशरङ्कहस्ते च तदपि चागतं प्रभो ! ॥ ७६॥ तदेवं युण्ययोगेन, लब्धं गुरुप्रसादतः । धन्यास्ते गुरवो ज्ञेया, धन्यो धर्मश्च सर्वदा ॥ ८० ॥ इत्येवं भावनां कृत्वा, विशुद्धपरिणामतः । मृत्वा मौर्यकुले जातः सम्प्रति नाम संप्रति ॥ ८१ ॥ चन्द्रगुप्तप्रपौत्रोऽयमशोकनृपपौत्रकः । कुणालस्य सुतो जातः गुरुदीक्षा प्रभावतः ||८२॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy