________________
-प्रदोप
[ ६१७) अनुमोदितशब्दस्तु, प्रातञ्जलेषु दृश्यते । अनुमतिप्रयोगस्तु, जैनेषु प्रविलोक्यताम् ॥१५॥ प्रकाशाऽवरणाद्याश्च, शब्दाः पातञ्जले मताः । ज्ञानाऽऽवरणशब्दास्तु, तत्स्थाने जैनदर्शने ॥१५२॥ निरुपक्रमशब्दश्च, सोपक्रमस्तथैव च । वज्रसंहनकेवल्यौ, ज्ञानावरणकर्म च ॥१५३॥ सम्यग्दर्शनशब्दश्च, सम्यग्ज्ञानं च ज्ञायताम् । सर्वज्ञादिकशब्दाश्च, अन्येऽपि तादृशाः खल १५४ चरमदेहशब्दोऽपि, क्षीणक्लेशप्रकारकाः । जैनसूत्रेष सर्वत्र, सुप्रसिद्धा भवन्ति ते ॥१५॥ वज्रऋषभनाराचसंहननादिशब्दकाः । तत्त्वार्थसूत्रभाष्यादौ, दृश्यन्ते बहुधा खलु ॥१५६॥ चरमदेहशब्दोऽपि, दृश्यते तत्र सूत्रके। अतो जैनात्समायाता, पातञ्जले ते शब्दकाः १५७ प्रसुप्ततनुविच्छिन्नोदाराऽवस्था चतुर्विधा । प्रोक्ताः पातञ्जले योगे, जैने नामान्तरास्तथा १५८ अविद्याद्याश्च मोहाख्यकोदयिकरूपकाः । भावविशेषरूपास्ते, ज्ञातव्याः सर्वसज्जनः ॥१५॥
१ वज्रसंहनन