________________
-प्रदीप
[५२७] लष्टपुष्टशरीरोऽपि, अन्तरायप्रयोगतः । तृणं वालयितुं शक्तः, कदापि नैव जायते ॥२६०॥ येन येन प्रकारेण, कर्मणां परिपाकता। जायते तेन रूपेण, भुज्यते जन्तुना सदा ॥२६१॥ कर्मणां कटुपाकेन, युक्ताः संसारसागरे । दुर्गतिदुःखसंतानसन्तापिता जनाः खलु ॥२६२॥ मृत्युत्पत्तिमहोर्मीणां, जालेन निचितास्तथा । मिश्यात्ववातयोगेन, क्लिश्यन्ते भोहिनो जनाः २६३ अतो मिथ्यात्वमोहादि,त्यक्त्वा शिवार्थिनो जनाः। संसारपाशमुच्छेत्तुं, यतन्ते भाग्यशालिनः ॥२६॥ श्लाघ्यास्त एव ज्ञातव्याः, धन्याश्चैते जनाः सदा । कर्मणां परिनाशाय, धारयन्ति महाव्रतम् ॥२६॥ कर्मणां नाशसद्भावे, विपाको नैव जायते । मूलनाशेन शाखाना, स्थितिः कियच्चिरा भवेत् २६६ विपाकविचयाख्यं तद्धमध्यानं समाश्रय । विपाकानां स्वरूपं च, तेनैव परिज्ञायते ॥२६७॥ विना वस्तुस्वरूपं तु, ज्ञात्वा कि केन तन्यते । येन स्वरूपज्ञानं च, प्राप्त तेनैव सर्वथा ॥२६॥