________________
-प्रदीप
[२४५] जिनेन्द्रस्य विना चेत्यं, वन्दनीयं न किश्चन । श्रद्धानालापके चैवं, प्रतिज्ञातं सुनिश्चितम् ॥७॥ जिनबिम्बं तु चैत्यं स्था, च्चैत्यं जिनसभातरुः । अनेकार्थेच संप्रोक्ताः, चैत्यशब्देन दर्शिता ॥७॥ प्रकरणादि प्रासङ्गा, च्छाब्दबोध विचारके । कर्तव्ये नैव दोषोऽस्ति, ज्ञातं सिन्धवमानय ॥७२॥ अन्यदेवस्य वन्द्यन्वे, अन्यत्र जिन बिम्बके । अवन्द्यत्व प्रतिज्ञा च, जिनबिबवन्द्य विना ॥७३॥ पूज्येत न हि केनापि, प्रकारेणेति मे मतिः । जिनमूर्तिरवन्येति, नियमश्च विधिं विना ॥७४॥ विंशतौ शतकानां च, विद्याचारणसाधुभिः। पश्चमाङ्ग च मूर्तीनां, वन्दनानमने कृते ॥७॥ लब्धीनां स्फोरणं चैव, प्रमादाचरणं मतम् । प्रायश्चित्तं च तस्येर्या,न तु वन्दनकादीनाम् ॥७६॥ वन्दनानमने चैव, भक्ति रूपे च दर्शिते। उत्तराध्ययने भक्तेः, फलं चैवं प्रदर्शितम् ॥७७॥
१-अनेकार्थ संग्रहे।