________________
-प्रदीप
[२१] गुरुणा चैव तत्कार्य, कृतं श्रुत्वा च तक्षणे । दत्वा च धर्मलाभं वै, तेभ्यस्तत्रोपदेशनम् ॥१४॥ विशुद्धधर्मकार्येषु, सर्वदा सन्तु तत्पराः । संगठनं सदा कार्य, सर्वैः साकं च प्रेमतः ॥१५॥ ज्ञानादिद्रव्यवस्तूनां, कुयुः सदोपयोजनम् । अतीव रक्षणे क्लेशप्रादुर्भावः प्रजायते ॥१६॥ तथैव देवद्रव्याणां, प्रभूणां मन्दिरे सदा । जीर्णोद्धारादिकार्येषु, ह्यु पयोगो विधीयताम् ॥१७॥ सम्मील्य धर्मध्यानं च, कर्त्तव्यं धर्मलिप्सुना। सराकोद्धारकार्ये च, सहयोगः सदा तव ॥१८॥
श्रेष्टिवर्योदयचन्द्रमहाशयेषु किचिद्वक्तव्यं बोत्थरा कुलचन्द्रण, उदयचन्द्रचारुणा । धैौदार्यगुणाढ्येन, धर्मकार्यविधायिना ॥१६॥ त्रिशतं पुस्तकानां वै, मुन्दापणं च स्वीकृतम्। स्वकीयद्रव्ययोगेन, ज्ञानलाभश्च गृह्यते ॥२०॥ अपूर्वज्ञानलाभोऽयं, मद्धस्तेषु समागतः । कथं विनाश्यते तादृक्, गुणाकांक्षिजनेन वै ॥२१॥