________________
[२२४]
योगकथं तर्हि स निर्माता, मन्यते परमेश्वरः ॥१४८ स्वकर्मकारको जीवः, भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता, सह्यात्मा नान्य लक्षणः॥१४॥ कर्मकालस्वभावाश्च, उद्यमनियती तथा। पञ्चकारणसामग्या, कार्य सर्व तु सिद्ध्यति ॥१५॥ कारण पञ्चसारूप्यं, तत्त्वाख्याने प्रपश्चितम् । अतस्तत्रैव दृष्टव्यं, पञ्चकारणकांक्षिणा ॥१५१॥ स्वतन्त्रो न हि युज्येत, परतन्त्रेऽप्रयोजनम् । द्वयोर्मध्ये च नैकोऽपि, पक्षश्चात्र निगद्यते ॥१५॥ जगन्निर्माण शक्तिमान् , करोति रचनां यदि । नित्यकत्तू स्वभावेन,किंवाऽन्यथा स्वभावतः॥१५॥ स्वीकारे प्रथमे पक्षे, जगन्निर्माणकार्यतः। निवृत्तिः परमेशस्य, कदाचिदपि नो भवेत्॥१५४॥ निवृत्तिर्यदि स्यात्तर्हि, स्वभावे हानिता भवेत् । अतःस्यादित्य नित्यत्वमागच्छे स्परमात्मनः॥१५॥ यदि स्वभावताऽभावे, सृष्ट्युत्पत्तिं करोति सः। तर्हि तेनैवसासृष्टिः,क्रियते इति मन्यताम् ॥१५६॥ स्वभावाऽभावता तयोः द्वयोरपि च साहशी।