________________
॥ ॐ अहं ॥ योगप्रदीपग्रन्थसहायककालिकातीय गौर्जरतपोगच्छीयसंघमहाशयानां तथा बोथरा गोत्रीय श्रेष्टिवर्योदयचंद्राख्यश्रावकाणामौदार्य प्रदर्शनम्। . कालिकातातपोगच्छे, श्रावकाणां शिरोमणिः । संधाधिपो गुणैः श्रेष्टः, ज्येष्टालालाभिधानकः ॥१॥ तस्य स्वर्गगतेऽप्येवं, तत्पुत्राः पितृ सादृशाः । धैौदार्यगुणयुक्ताः, सर्वदा समदर्शिनः ॥२॥ व्यवहारे सदा दक्षः, गुर्वाज्ञायां च तत्परः । प्राणजीवननामाख्यः, कनिष्टः सद्गुणैर्युत: ॥३॥ यादृग्जल्पति तादृक्षं, कार्यं करोति तत्क्षणे । विलम्बस्थावकाशो न, तस्य स्वान्ते विराजते ॥४॥ नरेषत्तमताज्येष्टबन्धषु सर्वदा खलः । संधाधिपतिता संधैः, सम्मील्य क्षिप्यते ध्रुवम् ॥५॥