________________
[१८६]
योग
सुवर्णं निर्मलं भूयात्तथात्मनि विलोक्यताम् । अनादिकाललग्नानि, ज्ञानाद्यावरणानि च ॥ ७०॥ मोहनीयान्तरायश्च, घाति तत्परिभाष्यते । एतत्कर्मचतुर्णाश्च, रत्नत्रयाविराधनात् ॥७१॥ निरतिचार योगानां, सर्वथा पालने सति । परमात्मनि जायेत, घातीनां सर्वथा क्षयः ॥७२॥ आविर्भूयाच्च कैवल्यज्ञानं सदा च निर्मलम् । लोकालोकस्य वै साक्षात्कारकारित्वमेव च ॥७३॥ यस्मिन्स्यात्तादृशं ज्ञानं सः सर्वज्ञ उदाहृतः। अतः सर्वज्ञ हेत्वभावो नैवात्र च विद्यते ॥७४ ॥ कदाचिदेवमुच्येत, सार्वकार्यस्य नाशतः। सर्वज्ञः संसृतौ नास्ति, मिथ्या वचनमित्यपि ॥७॥ अविसंवादि वाक्यञ्च, सर्वज्ञः कार्य्यता मता। जैनागमेषु तत्साक्षात्, द्रष्टव्यं सज्जनैः सदा ॥७६॥ सर्वज्ञ व्यापकाभावात्सर्वज्ञ संसृतौ नहि । आकाशपुष्पवज्ज्ञेयं, इत्यपि वचनं हृदि ॥७७॥ समस्तवस्तुनः साक्षात्कारकारी च वै तथा । व्यापकत्वं च सार्वस्य, उभयत्र प्रसिद्धति ॥७८ ॥