________________
योग -
| १६ j
चतुर्थे तत्र योगांगे, प्राणायामनिरूपणम् । रेचकपूरकानां च कुम्भकानां तथैव च ॥८॥ सूक्ष्मतासमतानां च, लीनतैकत्वयोस्तथा । द्रव्यभावप्रभेदेन, बाह्याभ्यन्तररूपतः ॥६॥ तथा तेषां च भेदानां, आत्मनि केन रूपतः । सम्बन्धता प्रजायेत, तदपि परिदर्शितम् ॥१०॥ स्वरोदयप्रसङ्गेन, तत्र विशेषरूपतः । दर्शितो भव्यजीवानां, हठयोगनिषेधनम् ॥११॥ दोषता हठयोगे स्यादू, लाभस्तु नैव किञ्चन । केवलं भवभ्रान्तित्वं तदपि तत्र दर्शितम् ॥ १२॥ प्रत्याहाराख्ययोगाङ्ग, इन्द्रियमनसां तथा । विषयेभ्यो निवृत्तित्वं दर्शितं स्पष्टरूपतः ॥ १३॥ अन्यथा बहुदोषत्वं, दुर्गतिगमनं तथा । प्रश्नोत्तरस्वरूपेण वर्णनं परिकीर्त्तितम् ॥ १४ ॥ धारणायां कचिदूध्येये, चित्तस्य स्थिरबन्धनम् । येन रूपेण कर्त्तव्यं, तदपि ज्ञापितं मया ॥ १५ ॥ चित्तस्य ध्येयरूपस्य स्वरूपं प्राक् प्रदर्शितम् । अत्र किल प्रसङ्ग ेन, वर्णितं स्पष्टरूपतः ॥ १६ ॥
"