________________
-प्रदीप
[१०] परिभ्रष्टस्य चारित्रात्, सम्यक्त्वं हृदये च वै। मुक्तिप्राप्तौ न संदेहः, कर्तव्यः परमार्थतः ॥३०७॥ सम्यक्त्वात्सत्यज्ञानश्च, ततः चारित्रता मता। यथाख्यातचरित्राच्च,शीघ्र मुक्तिः प्रजायते ॥३०॥ यदि च दर्शने भ्रष्टः सम्यग्ज्ञानं कुतो भवेत् । विना तेन न चारित्रंमुक्तिस्तु शशशृङ्गवत् ॥३०॥ दसणभट्ठो भट्ठो दंसणभट्ठस्स नत्थि निव्वाणम् । सिज्झन्तिचरणरहियादसणरहियानसिज्झन्ति।३१० प्राणान्तकष्टप्राप्तऽपि सम्यक्त्वं नैव हीयते । येनकेनाप्युपायेन सम्यक्त्वं हृदि धार्यताम्॥३११॥ सम्यक्त्वशुभकार्यस्य पालने विघ्नता भवेत् । अतः परीक्षणं कार्य भावनातश्च सर्वदा ॥३१२॥ श्रेयांसि बहुविनानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्व यान्ति विघ्ननायकाः॥३१३॥ विघ्नं भवति नित्यं वै यथा सद्व्यवहारिणः । प्रयोजनं क्व विघ्नस्य तथाऽसद्व्यवहारिणः॥३१४॥ मिथ्या व्याहृतिरूपत्व, विघ्नराहुश्च सर्वदा । तत्र चापरविनानां, प्रवेशो नैव विद्यते ॥३१॥