________________
७७
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । भरहं हेमवयं ति य हरिवासं ति य महाविदेहं ति । रम्मयमेरन्नवयं एरवयं चेव वासाइं ॥ [बृहत्क्षेत्र० २३] ति । तथा वर्षान्तरेषु वर्षधरपर्वतान् कल्पयित्वा, तद्यथाहिमवंत १ महाहिमवंत २ पव्वया निसढ ३ नीलवंता य ४ । रुप्पी ५ सिहरी ६ एए वासहरगिरी मुणेयव्वा ॥ [बृहत्क्षेत्र० २४] इति । सर्वमवबोद्धव्यमिति। ___ मन्दरस्य मेरोः, उत्तरा च दक्षिणा च उत्तरदक्षिणे तयोरुत्तरदक्षिणयोरिति वाक्ये उत्तरदक्षिणेनेति स्याद्, एनप्रत्ययविधानादिति, द्वे वर्षे क्षेत्रे प्रज्ञप्ते जिनैः, समतुल्यशब्दः सदृशार्थः, अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः, अविशेषे अविलक्षणे नग-नगरनद्यादिकृतविशेषरहिते, अनानात्वे अवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते, किमुक्तं भवतीत्याह- अन्योन्यं परस्परं नातिवर्तेते, इतरेतरं न लङ्घयत इत्यर्थः, कैरित्याहआयामेन दैर्येण विष्कम्भेन पृथुत्वेन संस्थानेन आरोपितज्याधनुराकारेण परिणाहेन परिधिनेति, इह च द्वन्द्वैकवद्भावः कार्य इति ।
तद्यथा- भरहे चेवेत्यादि, उत्तरदाहिणेणं ति एतस्य पाठस्य यथासङ्ख्यन्यायानाश्रयणाद् यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमा हिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, एवमिति भरतैरवतवत् एतेनाभिलापेन 'जंबुद्दीवे दीवे मंदरस्से'त्यादिना उच्चारणेनाऽपरं सूत्रद्वयं वाच्यम्, तयोश्चायं विशेषः- हेमवए चेवेत्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये, हैरण्यवतमुत्तरतः रुक्मि-शिखरिणोरन्तः, हरिवर्षं दक्षिणतो महाहिमवन्निषधयोरन्तः, रम्यकवर्षं चोत्तरतो नील-रुक्मिणोरन्तरिति।
[सू० ८१] जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं दो खेत्ता पन्नत्ता बहुसमतुल्ला अविसेस जाव पुव्वविदेहे चेव अवरविदेहे चेव १।
[टी०] पुरथिमपच्चत्थिमेणं ति पुरस्तात् पूर्वस्यां दिशि पश्चात् पश्चिमायामित्यर्थः, यथाक्रमं पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपरविदेह इति, एतेषां चायामादि ग्रन्थान्तरादवसेयमिति ।