________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
४०९
पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेवम्
पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्यर्थं मार्गशीर्षे शीतं पौषेऽतिहिमपात: ॥ माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ । अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ । फाल्गुनमासे रूक्षश्चण्ड: पवनोऽभ्रसम्प्लवा: स्निग्धाः । परिवेषाश्चासकला: कपिलस्ताम्रो रविश्च शुभः ॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥ [बृहत्संहिता २१।१९-२२] इति । तानेव मासभेदेन दर्शयति- माहेत्यादि श्लोकः । [सू० ३७७] चत्तारि मणुस्सीगब्भा पन्नत्ता, तंजहा-इत्थित्ताते, पुरिसत्ताते, णपुंसगत्ताते, बिंबत्ताते
अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ पजातति । अप्पं ओयं बहुं सुक्कं, पुरिसो तत्थ जातति ॥३१॥ दोण्हं पि रत्तसुक्काणं, तुल्लभावे णपुंसगो । इत्थीओयसमाओगे, बिंबं तत्थ पजायति ॥३२॥ [टी०] गर्भाधिकारान्नारीगर्भसूत्रं व्यक्तम्, केवलम् इत्थित्ताए त्ति स्त्रीतया, बिम्बमिति गर्भप्रतिबिम्बं गर्भाकृतिरार्त्तवपरिणामो न तु गर्भ एवेति, उक्तं च
अवस्थितं लोहितमङ्गनाया वातेन गर्भ ब्रुवतेऽनभिज्ञाः । गर्भाकृतित्वात् कटुकोष्णतीक्ष्णैः श्रुते पुन: केवल एव रक्ते ॥ गर्भं जडा भूतहतं वदन्ती [ ] त्यादि ।
वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह- अप्पमित्यादि, शुक्रं रेत: पुरुषसम्बन्धि, ओज आर्त्तवं रक्तं स्त्रीसम्बन्धि यत्र गर्भाशय इति गम्यते इति, तथा स्त्रिया ओजसा समायोगो वातवशेन तत्स्थिरीभवनलक्षण: स्त्र्योज:समायोगस्तस्मिन्