________________
४०३
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्र: सङ्क्लेशहेतुत्वेन दुर्गतिनिमित्तत्वात्, पूर्वापरकालापेक्षया वेदं भावनीयमिति । तथा मित्रमन्त:स्नेहवृत्त्या मित्रस्येव रूपम्
आकारो बाह्योपचारकरणात् यस्य स मित्ररूप इति एकः, द्वितीयोऽमित्ररूपो बाह्योपचाराभावात्, तृतीय: अमित्र: स्नेहवर्जितत्वादिति, चतुर्थः प्रतीतः ।
तथा मुक्त: त्यक्तसङ्गो द्रव्यत:, पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत् । द्वितीयोऽमुक्तः साभिष्वङ्गत्वात् रङ्कवत् । तृतीयोऽमुक्तो द्रव्यत:, भावतस्तु मुक्तो राज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवर्त्तिवत्। चतुर्थो गृहस्थः। कालापेक्षया वेदं दृश्यमिति। ___ मुक्तो निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येकः, द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् गृहस्थावस्थायां महावीर इव, तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवत्, चतुर्थो गृहस्थ इति ।
[सू० ३६७] पंचेंदियतिरिक्खजोणिया चउगइया चउआगइया पन्नत्ता, तंजहा-पंचेंदियतिरिक्खजोणिए पंचेंदियतिरिक्खजोणिएसु उववजमाणे णेरइएहिंतो वा तिरिक्खजोणिएहिंतो वा मणुस्सेहिंतो वा देवेहिंतो वा उववजेजा, से चेव णं से पंचेंदियतिरिक्खजोणिए पंचेंदियतिरिक्खजोणियत्तं विप्पजहमाणे णेरतितत्ताते वा जाव देवत्ताते वा गच्छेज्जा १॥
मणुस्सा चउगइया चउआगइया, एवं चेव मणुस्सा वि २।
[सू० ३६८] बेइंदिया णं जीवा असमारभमाणस्स चउविहे संजमे कजति, तंजहा-जिब्भामयातो सोक्खातो अववरोवेत्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासामयातो सोक्खातो अववरोवेत्ता भवति एवं चेव।
बेइंदिया णं जीवा समारभमाणस्स चउविधे असंजमे कजति, तंजहाजिब्भामयातो सोक्खाओ ववरोवेत्ता भवति, जिन्भामएणं दुक्खेणं संजोगेत्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवति एवं चेव २॥
[सू० ३६९] सम्मद्दिट्टिताणं णेरइयाणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा-आरंभिता, परिग्गहिता, मातावत्तिया, अपच्चक्खाणकिरिया ।