________________
४००
[सू० ३६४] चउव्विहा बुद्धी पन्नत्ता, तंजहा-उप्पत्तिया, वेणइया, कम्मया, पारिणामिया ।
चउव्विधा मती पन्नत्ता, तंजहा-उग्गहमती, ईहामती, अवायमती, धारणामती।
अहवा चउव्विहा मती पन्नत्ता, तंजहा-अरंजरोदगसमाणा, वियरोदगसमाणा, सरोदगसमाणा, सागरोदगसमाणा ।
[टी०] चतुर्विधकर्मस्वरूपं सङ्घ एव वेत्तीति सङ्घसूत्रं व्यक्तम्, स च सर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रम्, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सङ्घो गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति तपस्यन्तीति श्रमणा:, अथवा सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्तन्त इति समनसः, तथा समानं स्वजन-परजनादिषु तुल्यं मनो येषां ते समनस:, प्राकृततया सर्वत्र समण त्ति, एवं समणीओ, तथा शृण्वन्ति जिनवचनमिति श्रावका:, अथवा श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, तथा वपन्ति गुणवत्सत्त्वक्षेत्रेषु धनबीजानि निक्षिपन्तीति वाः, तथा किरन्ति क्लिष्टकर्मरजो विक्षिपन्तीति काः, तत: कर्मधारये श्रावका इति भवति, यदाह
श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरुत्तमाः ॥ [ ] इति, एवं श्राविका अपीति ।
तथा उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी । ननु क्षयोपशम: कारणमस्या:, सत्यम्, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, अपि च- बुद्ध्युत्पादात् पूर्वं स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिरौत्पत्तिकीति, नटपुत्ररोहकादीनामिवेति ।