________________
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
२५१ नैरयिकः, तस्य चानन्योत्पत्तिस्थानतां दर्शयितुमाह- निरयलोके, तस्मादिच्छेन्मानुषाणामयं मानुषस्तं लोकं क्षेत्रविशेष हव्वं शीघ्रमागन्तुम्, नो चेव त्ति नैव, णं वाक्यालङ्कारे, संचाएइ सम्यक् शक्नोति आगन्तुम् । समुन्भूयं ति समुद्भूताम् अतिप्रबलतयोत्पन्नाम्, पाठान्तरेण सम्मुखभूताम् एकहेलोत्पन्नाम्, पाठान्तरेणामहतो महतो भवनं महद्भूतम्, तेन सह या सा समहद्भता ताम्, समहोद्भूतां वा वेदनां दुःखरूपां वेदयमानः अनुभवन् इच्छेदिति मनुष्यलोकागमनेच्छायाः कारणम् १, एतदेव चाशकनस्य, तीव्रवेदनाभिभूतो हि न शक्त आगन्तुमिति । तथा निरयपालैः अम्बादिभिः भूयो भूयः पुनः पुनरधिष्ठीयमानः समाक्रम्यमाणः आगन्तुमिच्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारणम्, तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति २, तथा निरये वेद्यते अनुभूयते यत् निरययोग्यं वा यद्वेदनीयं तन्निरयवेदनीयम् अत्यन्ताशुभनामकर्मादि असातवेदनीयं वा तत्र कर्मणि अक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीणे जीवप्रदेशेभ्योऽपरिशटिते इच्छेत् मानुषं लोकमागन्तुं न च शक्नोति, अवश्यवेद्यकर्मनिगड-नियन्त्रितत्वादित्यागमनाशकन एव कारणमिति ३, तथा एवमिति ‘अहुणोववन्ने' इत्याद्यभिलापसंसूचनार्थम्, निरयायुष्के कर्मणि अक्षीणे यावत्करणात् 'अवेइए' इत्यादि दृश्यमिति ४, निगमयन्नाह- इच्चेएहिं ति, इति एवंप्रकारैरेतैः प्रत्यक्षैरनन्तरोक्तत्वादिति । _[सू० २४६] कप्पंति णिग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्तते वा, तंजहा- एगं दुहत्थवित्थारं, दो तिहत्थवित्थाराओ, एगं चउहत्थवित्थारं।
[टी०] अनन्तरं नारकस्वरूपमुक्तम्, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति तद्विपक्षभूतं परिग्रहविशेषं चतुःस्थानकेऽवतारयन्नाह– कप्पंतीत्यादि, कल्पन्ते युज्यन्ते निर्गता ग्रन्थाद् बन्धहेतोर्हिरण्यादेर्मिथ्यात्वादेश्चेति निर्ग्रन्थ्यः साध्व्यस्तासां सङ्घाट्यः उत्तरीयविशेषरूपा धारयितुं वा परिग्रहे परिहर्तुं वा परिभोक्तुमिति, द्वौ हस्तौ विस्तारः पृथुत्वं यस्याः सा तथा, कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघाटीनाम्, एगं दुहत्थवित्थारं, एगं चउहत्थवित्थारं ति प्रथमा स्यात्तदर्थे च प्राकृतत्वात् द्वितीयोक्ता, धारयन्ति परिभुञ्जते वेति प्रत्ययपरिणामेन वा क्रियानुस्मृतेः द्वितीयैव, तत्र प्रथमा उपाश्रये