________________
१९८
स्नेहरागापनयनं १ संहर्षोत्पादनं तथा २ । सन्तर्जनं च ३ भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः ॥ [ ]
संहर्षः स्पर्धा, सन्तर्जनं च अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिरूपमिति, प्रदानलक्षणमिदम्
य: सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदानं तथा तस्य १ गृहीतस्यानुमोदनम् २॥ द्रव्यदानमपूर्वं च ३, स्वयंग्राहप्रवर्त्तनम् ४ । देयस्य प्रतिमोक्षश्च ५, दानं पञ्चविधं स्मृतम् ॥ [ ]
धनोत्सर्गो धनसम्पत्, स्वयंग्राहप्रवर्त्तनम् परस्वेषु, देयप्रतिमोक्ष ऋणमोक्ष इति। प्रयोगश्चासामेवम्
उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, समं तुल्यपराक्रमैः ॥ [ ] इति । [सू० १९२] तिविधा पोग्गला पन्नत्ता, तंजहा-पओगपरिणता, मीसापरिणता, वीससापरिणता ।
तिपतिट्ठिया णरगा पन्नत्ता, तंजहा-पुढविपतिट्टिता, आगासपतिट्ठिता, आयपतिट्टिता । णेगम-संगह-ववहाराणं पुढविपइट्ठिया, उजुसुतस्स आगासपतिट्ठिया, तिण्हं सद्दणयाणं आयपतिट्ठिया ।।
[टी०] अनन्तरं जीवा धर्मत: प्ररूपिता:, इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह–तिविहे त्ति प्रयोगपरिणता: जीवव्यापारेण तथाविधपरिणतिमुपनीता:, यथा पटादिषु कर्मादिषु वा, मीस त्ति प्रयोग-विस्रसाभ्यां परिणताः, यथा पटपुद्गला एव प्रयोगेण पटतया विस्रसापरिणामेन चाऽभोगेऽपि पुराणतयेति, विससा स्वभावः, तत्परिणता अभ्रेन्द्रधनुरादिवदिति ।
पुद्गलप्रस्तावाद्विसूसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाहतिपतिट्ठियेत्यादि स्फुटम्, केवलं [नरका] नरकावासाः, आत्मप्रतिष्ठिताः स्वरूपप्रतिष्ठिताः । तत्प्रतिष्ठानं नयैराह- णेगमेत्यादि, नैकेन सामान्य-सामान्यविशेषविशेषग्राहकत्वात् तस्य नैकेन ज्ञानेन मिनोति परिच्छिनत्तीति नैकम:, अथवा निगमा: