________________
१६४
[टी०] निर्ग्रन्थाश्चारोपितव्रताः केचिद् भवन्तीति व्रतारोपणकालविशेषानाह- तओ सेहेत्यादि सुगमम्, किन्तु सेह त्ति षिधू संराद्धौ [पा०धा० ११९२] इति वचनात् सेध्यते निष्पाद्यते यः स सेधः, शिक्षा वाऽधीत इति शैक्षः, तस्य भूमयो महाव्रतानारोपणकाललक्षणाः अवस्थापदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभिप्रायः-उत्कर्षतः षड्भिर्मासैरुपस्थाप्यते न तानतिक्राम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवैर्गृहीतशिक्षत्वादिति, उक्तं च
सेहस्स तिन्नि भूमी जहन्न तह मज्झिमा य उक्कोसा। राइंदि सत्त चउमासिगा य छम्मासिआ चेव ॥ [व्यव० १०।४६०४] इति । आसु चायं व्यवहारोक्तो विभाग:पुव्वोवट्ठपुराणे करणजयट्ठा जहन्निया भूमी । उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणं च ॥ एमेव य मज्झिमगा अणहिज्जंते असद्दहते य । भावियमेहाविस्स वि, करणजयट्ठा य मज्झिमगा ॥ [व्यव० १०।४६०५-६] इति ।
शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भूमिनिरूपणायाह- तओ थेर इत्यादि कण्ठ्यम्, नवरं स्थविरो वृद्धः, तस्य भूमयः पदव्यः स्थविरभूमय इति, जाति: जन्म, श्रुतम् आगमः, पर्याय: प्रव्रज्या, तैः स्थविरा वृद्धा ये ते तथोक्ता इति. इह च भूमिका-भूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति, एतेषां च त्रयाणां क्रमेणानुकम्पा-पूजा-वन्दनानि विधेयानि, यत उक्तं व्यवहारे
आहारे उवही सेज्जा, संथारे खेत्तसंकमे । किइच्छंदाणुवत्तीहि अणुकंपइ थेरगं ॥ उट्ठाणासणदाणाई जोगाहारप्पसंसणा । नीयसेज्जाइ निद्देसवत्तित्ते पूयए सुयं ॥ उट्ठाणं वंदणं चेव गहणं दंडगस्स य । अगुरुणो वि य निद्देसे तइयाए पवत्तए ॥ [व्यव० १०।४५९९-४६०१] त्ति । [सू० १६८] ततो पुरिसजाता पन्नत्ता, तंजहा-सुमणे, दुम्मणे, णोसुमणे