________________
१२२ तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले, चिन्वन्ति वा सम्प्रति, चेष्यन्ति वा अनागतकाले केचिदिति गम्यते, चयनं च कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रम्, उपचयनं तु चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवम्प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं जावुक्कोसियाए विसेसहीणं णिसिंचइ [ ] त्ति, बन्धनं तु तस्यैव ज्ञानावरणादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनमिति, उदीरणं त्वनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनम् अनुभवः, निर्जरा कर्मणोऽकर्मताभवनमिति ।
[सू० १२६] दुपएसिता खंधा अणंता पण्णत्ता । दुपदेसोगाढा पोग्गला अणंता पन्नत्ता। एवं जाव दुगुणलुक्खा पोग्गला अणंता पण्णत्ता ।
दुट्ठाणं सम्मत्तं । [टी०] कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्य-क्षेत्र-काल-भावैर्द्विस्थानकावतारेण निरूपयन्नाह- दुपएसीत्यादिसूत्राणि त्रयोविंशतिः, सुगमा चेयम्, नवरम् एवं यावत्करणात् दुसमयट्ठिइएत्यादिसूत्राण्येकविंशतिर्वाच्यानि, कालं पञ्च-द्वि-पञ्चाऽष्टभेदान् वर्ण-गन्ध-रस-स्पर्शाश्चाश्रित्येति, वाचना चैवं 'दुसमयट्ठितिया पोग्गले'त्यादि।
॥ द्विस्थानकस्य चतुर्थ उद्देशकः समाप्तः ॥ इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये
श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां द्विस्थानकाख्यं द्वितीयमध्ययन
समाप्तम्।