________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः ।। महासुक्के चेव सहस्सारे चेव । आणत-पाणता-ऽऽरण-ऽच्चुतेसु णं कप्पेसु दो इंदा पन्नत्ता, तंजहा-पाणते चेव अच्चुते चेव । ___ महासुक्क-सहस्सारेसु णं कप्पेसु विमाणा दुवण्णा पन्नत्ता, तंजहा-हालिद्दा चेव सुक्किला चेव । गेविजगा णं देवा णं दो रयणीओ उड्डमुच्चत्तेणं पन्नत्ता ।
॥ तइओ उद्देसओ समत्तो ॥ [टी०] एते च द्वीप-समुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह- दो असुरेत्यादि अच्चुए चेव इत्येतदन्तं सूत्रं सुगमम्, नवरम् असुरादीनां दशानां भवनपतिनिकायानां मेर्वपेक्षया दक्षिणोत्तरदिग्द्वयाश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः, तत्र चमरो दाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्द्राः, तथा अणपन्निकादीनामप्यष्टानामेव व्यन्तरविशेषरूपनिकायानां द्विगुणत्वात् षोडशेति, ज्योतिष्कानां त्वसङ्ख्यातचन्द्र-सूर्यत्वेऽपि जातिमात्राश्रयणाद् द्वावेव चन्द्र-सूर्याख्याविन्द्रावुक्तौ, सौधर्मादिकल्पानां तु दशेन्द्रा इत्येवं सर्वेऽपि चतुःषष्टिरिति ।
देवाधिकारात् तन्निवासभूतविमानवक्तव्यतामाह- महासुक्केत्यादि कण्ठ्यम्, नवरं हारिद्राणि पीतानि, क्रमश्चायं सौधर्मादिविमानवर्णविषयो यथा- सौधर्मेशानयोः पञ्चवर्णानि, ततो द्वयोरकृष्णानि, पुनर्द्वयोरप्यकृष्ण-नीलानि, ततो द्वयोः शुक्रसहस्राराभिधानयोः पीत-शुक्लानि, ततः शुक्लान्येवेति, आह चसोहम्मे पंचवन्ना एक्कगहाणी उ जा सहस्सारो । दो दो तुल्ला कप्पा तेण परं पुंडरीयाइं ॥ [बृहत्संग्र०१३२] इति ।
देवाधिकारादेव द्विस्थानकानुपातिनीं तदवगाहनामाह-गेवेज्जगा णमित्यादि पूर्ववद् व्याख्येयमिति ।
॥ द्विस्थानकस्य तृतीय उद्देशकः समाप्तः ।