________________
यक्षरकाण्डे पुल्लिङ्गाध्यायः 1
पार्श्वद्वारे विरोधेऽर्धमासे चुल्लीबिलेऽन्तिके । हस्तिपार्श्वे परिज्ञाने केशशब्दात् परश्वये ॥ ७० ॥ पणो विक्रय्यशाकादित्रर्द्धमुष्टौ ग्लहे धने । द्यूतेऽशीतौ वराटानां कार्षिकव्यवहारयोः ॥७१॥ मूल्ये भृतौ व्यवस्थायां विक्रयेऽप्यथ पट्टवाक् । प्रशस्तक्षौमकौशेयाद्यम्बरे व्रणबन्धने ॥ ७२ ॥ शाणस्य† नेत्रे स्वर्णादिकृतदीर्घाच्छपत्रके । गुवाकनालिफेरादिपत्रमूलेस्थवेष्टके ॥ ७३ ॥ पर्पः शङ्खेऽम्बुधौ वस्त्रे प्लक्षस्तु तरुषु त्रिषु । अश्वत्थे पर्कटीसंज्ञे गर्दभाण्डेऽप्यथो पविः ॥ ७४ ॥
व शस्त्रमुखे वा दृश्यर्थे त्वव्ययं पशु । पुमान् मृगादौ छगले हर्षनन्दी त्ववोचत ॥ ७५ ॥ ग्राम्येऽप्यमुक्तात्मसु तु वयं ब्रूमोऽथ पादवाक् । किरणे चरणे वृक्षमूलेऽद्रेः प्रान्तपर्वते ॥ ७६ ॥ तुर्यभागे पद्यभागे परिमाणान्तरेऽपि च । प्रासस्तु प्रासने कुन्तसमाख्ये चायुधान्तरे ॥ ७७ ॥
पाणिः पचतुर्भागे हस्तेऽप्यथ भगे गुदे ।
पायुः पाप्मा तु रोगे च दुरितेऽप्यथ पिण्डिवाक् ॥ ७८ ॥
निप्पीडितस्नेहपिण्डे पिष्टधानादिचूर्णके । पिस्तूले कर्षमाने पितुवन्नविरिञ्चयोः ॥ ७९ ॥
१. 'न्धे' क. ग. घ. पाठः. २. 'लादिवेष्टने' क. घ., 'लास्थिवेष्टने' ग. पाठः. ३. 'ल:' क. घ., ‘र्वः' ग. पाठः.
२७
+ 'पट्टो नेत्रेऽपि शाणे स्यात्' (पु. २१६ लो. ३४ ) इति वैजयन्ती । 'पट्टः पेषणपापाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः ॥' इति मेदिनी । 'पट्टचतुष्पथ पीठे राजादेः शासनान्तरे । व्रणादिबन्धने पेषाश्मनि' इति हेमचन्द्रश्च ।