________________
इयक्षरकाण्डे पुल्लिङ्गाध्यायः ।
अथ द्व्यक्षरकाण्डे पुल्लिङ्गाध्यायः ।
अथ पुंसि विरिञ्चाख्या रुद्राक्षे स्युश्चतुर्मुखे । तस्मिन् पञ्चमुखे शम्भोः कुमारस्य तु षण्मुखे ॥ १ ॥ गुग्गुलूलक कुटजेष्विन्द्रस्यास्तु चित्रके । भल्लातकेऽप्यथार्कस्य भल्लातक्यर्कपर्णयोः ॥ २ ॥ कर्पूरकाम्पिल्लकयोरिन्दोर्वज्रस्य हीरके । कुबेरस्य तु पर्याया वन्दाके * क्षीरवृक्षजे ॥ ३ ॥ मुस्तेऽम्बुदस्याथ शैलेये धरणीभृतः । अर्थः फले धने शास्त्रे वस्तुमात्रे प्रयोजने ॥ ४ ॥ हृदये साधने मोक्षे कार्येश्वर्यनिवृत्तिषु । वाच्ये तावभिप्राये याचने च हलायुधः ॥ ५ ॥ अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः । रूपकाणां विशेषे च नाटकादेश्च पर्वसु ॥ ६ ॥ उरस्यर्घस्तु पूजायां मूल्येऽप्यब्दस्तु वारिदे । वत्सरे मुस्तकेऽथाब्दः (? ) पुरोडाशर्षिभेदयोः ॥ ७ ॥ वृक्षावयवभेदे च स्यादगो गिरिवृक्षयोः । अश्नोऽभ्रे भूवरेऽथाभो + ( ! ) वायावात्मन्यथार्कवाक् ॥ ८ ॥ व्याधौ शशाङ्केऽप्यद्रिस्तु शैले सूर्ये मेऽम्बुदे । अङ्घ्रिः पादपमूले च प्राणिनां चरणेऽपि च ॥ ९ ॥ अन्धुरूधसि कूपेऽपि व्रणेऽक्षुस्त्वब्धिवप्रयोः । असुध्वनिस्तु प्रज्ञायामसवो भूनि जीविते ॥ १० ॥ अतुस्तु याचके कालेऽप्यश्मा पाषाणमेघयोः । आधिर्मानसपीडायामधिष्ठाने तथैव च ॥ ११ ॥
* वृक्षोपरिजाते लताविशेषे । 7 'अधात्नुः' इति पाठः स्यात् ।
२१