________________
(५२५) महाकवि-श्रीशोभनमुनिप्रणीतचतुर्विंशतिजिनेन्द्र-स्तुतयः।
-- - श्रीऋषभदेवजिनेन्द्र-स्तुतिः। (१)
(शार्दूलविक्रीडित-वृत्तम् ) भव्याम्भोजविबोधनकतरणे विस्तारिकर्मावलीरम्भासामज नाभिनन्दन ! महानष्टापदाभासुरैः। भक्त्या वन्दितपादपद्म विदुषां संपादय प्रोज्झितारम्भाऽसाम जनाभिनन्दन भहानष्टापदाभासुरैः ॥१॥ ते कः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो, दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयांचक्रुः पतन्त्योऽम्बरादाराविभ्रमरोचिताः सुमनसो मन्दारवाराऽजिताः ॥२॥ शान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमायैर्नयैरक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत् पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कृवाद्यावलीरक्षोभअनहेतुलाञ्छितमदो दीर्णाङ्गजाऽलंकृतम् ॥३॥ शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधुलीकणानाली केसरलालसा समुदिताऽऽशु भ्रामसभासिता।