SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ तत्याज गुणतत्याऽज ! राजितश्रीदराजित!।। तानामहर ता नाऽऽम सन्म! ते येऽलसन् मते ॥४॥ यामायनिलयामाय ! तारयाऽविप्रतारया । याता तत्त्वधिया तात! सत्तमस्त्वमसत्तमः ॥ ५॥ [२०] श्रीमुनिसुव्रतस्तवनम् । सुव्रतः सुव्रतस्वामिन् ! परमाऽपरमानहृत् । कमलाः कमलास्य ! त्वं देहि नो देहिनो हितः ॥ १ ॥ .४ हे अज ! जन्म-रहित । हे गुणतत्या राजितश्री: ! गुणविस्तारेण विभूषितश्रीः । हे दराजित !दरैर्भयैः अजित । हे आमहर!= रोगहर । हे सन्म !-सती मा श्रीर्यस्य । ते-तव, मते-धर्मे, ये (जीवाः) अलसन्, तान् ता-पुण्यं ( आमेत्यङ्ग कारेऽव्ययम् ) न तत्याज । ('ता'शब्दः पुण्यवाची शब्दस्तोममहानिधौ अस्ति ।) ५ हे आय-निलय !=(आयो लाभः) हे लाभगृह । हे अ-माय ! माया-रहित । हे असत्तमः=न विद्यते तमोऽज्ञानं यस्य तत्संबोधने । हे तात ! । तारया=निमलया । अ-विप्रतारया अशठया । तत्त्वधिया । यां ( 'गतिम्' इत्यध्याहारः) याता= गमिष्यति । जनः, ('सः' इत्यध्याहारः ) त्वम् । सत्तमः= सत्सु श्रेष्ठः । [२०] हे सुव्रतस्वामिन् । हे परम श्रेष्ठ । हे अपर-मान-हृत्-हे परमानहारक । हे कमलाऽऽस्य हे कमलानन । सुव्रतः, देहिनो हितः त्वं नः अस्माकं कमलाः श्रियः देहि ।
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy