________________
[१९] श्रीमल्लिस्तवनम् । मल्ले ! खजिद् ! नमल्लेख ! तारतत्त्वव्रताऽऽरत! सद्भावप्रोल्लसद्भाऽव ! मामनामरमामनाः ॥१॥ भीमारिजिदभीमारिः सर्वदाऽरिद्र ! सर्वदा । लोके शर्मद ! लोकेश ! यामद ! त्वं जयाऽमद ! ॥२॥ नो कोऽपव्यसनोऽकोप! मानवर्जित ! मानवः । माऽराग ! स्तौति मारागवारण ! त्वाऽघवारण ! ॥ ३ ॥
[१९] १ हे खजि-खानि इन्द्रियाणि जयतीति । हे नमल्लेख !=नमन्तो
लेखाः देवा यम् । हे तारतत्त्वव्रताऽऽरत ! निर्मलतत्त्वानि यानि व्रतानि तेषु तल्लीन ! । हे सद्भावेषु प्रोल्लसन्ती भा-प्रभा यस्य तत्सम्बुद्धौ हे सद्भावप्रोल्लसद्भ । हे मल्ले, अनामरमामनाः= (त्वं) अनामा या रमा श्रीः तस्यां मनो यस्य एतादृशस्त्वं
मां अव-रक्ष । २ भीमारिजि-हे भयङ्कर-रिपु-नाशक ! । हे सर्व-द (सर्व ददातीति) । हे सर्वदा अरि-द्र ! अरीन् द्रवतीति अरिद्र । यामानि= चत्वारि महाव्रतानि ददातीति याम-द । हे अ-मद !=मदरहित, अ-भी-मारिः (त्वं)-गत-भय-मारिः । जय । ३ हे अ-कोप । हे माऽराग !-मायां श्रियां अ-राग । माराऽग
वारण ! मारः कामः स एव अगः-वृक्षः तस्य नाशे वारण= हस्तिन् । हे अघ-वारण ! हे पापनाशक। कः अपव्यसनः= व्यसनवर्जितो मानवः त्वा त्वां नो स्तौति ? । ।