________________
सा श्लाघ्या खदशा प्रास्तकमला सदया लयम् । या त्वा गत्वा प्रजा स्तौति कमलासदयालयम् ॥५॥
[५] श्रीमुमतिस्तवनम् । सुमतावावली पद्मां सुमतावस्थिता नता । सुमतावापका नेयाऽसुमतामयसद्मनि भवनाशगुणश्रेणिभवनासुमतां श्रिये । भव नाथ! मनोजन्मभव! नागगते ! सदा ॥२॥ कामद! त्वां प्रजा दृष्ट्वा कामदर्पहरं मुदम् । कामदश्रेयसा लेभे कामदक्षां युतां न हि ॥३॥ ५ प्रास्तकमला दूरीकृतमला । लयं लीनताम् । कमलासदयालयम्= श्रीसत्प्राकर्ममन्दिरम् ( त्वाम् ) [अयः प्राक्तनं कर्म ] ।
[५] १ आवली श्रेणिः । सुमतौ नता-सुमतिजिने कृतनमस्कारा । सुमतौ
=सद्बुद्धौ । अस्थिता-स्थैर्यरहिता सद्बुद्धिरहिता ('अपि' इत्यध्याहारः)। सुमतावापका-सज्ज्ञानाऽभूषणा [ सुमतं-सज्ज्ञानम् , आवापकं आभूषणम् ] । असुमतां प्राणिनाम् । अयसद्मनि-शुभमन्दिरे । भवनाशगुणश्रेणिभवन हे संसारनाशकगुणसमूह । मनोजन्मभव हे कामदेवे महादेव [कामनाशकत्वात् ] । असुमतां प्राणिनाम् । नागगते हे हस्तिगते। ३ कामदश्रेयसा युतां कामप्रदपुण्येन युक्ताम् । अदक्षांचातुरीरहितां=
अकृत्रिमाम ।