________________
- एतेषु च स्तवनेषु क्वापि कर्नुर्नाम्नोऽनिर्देशात् , प्रतौ च लेखसमयस्यानुल्लेखात् 'केन कदा स्तवनानीमानि विरचितानि' इति सम्यग् विनिर्णेतुं न शक्यते, तथापि एतानि स्तवनानि विक्रमीयपञ्चदशाधिकपञ्चदशशतकात् (१५१५) प्राचीनानीत्यनुमीयते; तथाहिअत्रत्येऽर्बुदाचलस्तवने तत्रत्यानां त्रयाणामेव मन्दिराणामुल्लेखः स्तवनक; कृतोऽस्ति यथा
“अर्बुदाद्रौ युगादीशं रिरीभूत्तियुतं स्तुमः । . नेमिं च प्रतिमाः सर्वाः प्रासादत्रयसंश्रिताः॥१॥
अर्बुदलेखेष्वपि तत्समये त्रयाणामेव मन्दिराणामुल्लेखो वर्तते । ____ अर्बुदाचले ( देलवाडाग्रामे ) चेदानी वर्तमानानां चतुर्णां मन्दिराणां मध्येऽर्वाचीनस्य खरतरगच्छीयचतुमुख-प्रासादस्य प्रतिष्ठा विक्रमीय १५१५ तम संवत्सरे
१ ॐ० । स्वस्ति श्रीअर्बुदतीर्थे श्रीआदिदेवादिप्रासादत्रये संवत (त्) १४८९ वर्षे ...(मा ?) र्ग [.] वदि ५ सोमे राजश्रीराजधरदेवडा चुंडाविजयि (य) राज्ये * * * तपागच्छे श्रीसोमसुन्दरसूरि-शिष्य पं० सत्यसारगणिना लिखितं... ।
अर्बुद-प्राचीन-जैन-लेख-सन्दाह, लेखाङ्क: २४८ ॐ० । [तीर्थ ?] गराय नमः । स्वस्ति संवत १४९४ वर्षे वैशाखशुदि १३ गुरौ * * * श्री अर्बुदाचले आगिइ तीर्थ शीतांबरु प्रासाद दिगंबरु पाछिइ कराव्य...श्री आदिनाथ वडाइ बीजी श्री नेमिनाथि त्रीजिइ श्रीपित्तलहर वुथ प्रासाद दिगंबरु पाछिइ xx।
लेखाङ्कः ४६२