________________
साध्यवभिन्नो न । अतः साध्यवत्भिन्ने साध्याभाववति च भूतलादौ एतवृक्षत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः ।
ચાન્દ્રશેખરીયા સાધ્યવભિન્ન એવો જે સાધ્યાભાવવાનું હોય, તેમાં હેતુની અવૃત્તિતા એ વ્યાપ્તિ છે. વૃક્ષ એ કપિસંયોગવભિન્ન નથી. માટે, ભૂતલાદિ જ સાધ્યવભિન્ન એવા સાધ્યાભાવવત્ તરીકે લેવાશે. અને, તેમાં એતદ્ગક્ષત્વ ન રહેલ હોવાથી લક્ષણ ઘટી જાય. જો, સાધ્યવભિન્ન ન મુકે, તો વૃક્ષ સાધ્યાભાવવત્ બને. અને, તેમાં હેતુ રહેલો હોવાથી અવ્યાપ્તિ આવે. ___ माथुरी : तदसत् । साध्याभाववदित्यस्य व्यर्थतापत्तेः, साध्यवद्भिन्नावृत्तित्वमित्यस्यैव सम्यक्त्वात् ।
नव्यास्तु साध्यवद्भिने साध्याभावः, साध्यवद्भिन्नसाध्याभावस्तद्वदवृत्तित्वमिति सप्तमीतत्पुरुषोत्तरं मतुप्प्रत्ययः, तथाच साध्यवद्भिन्नवृत्तिर्यः साध्याभावस्तद्वदवृत्तित्वमर्थः । ___ एवं च साध्यवद्भिन्नवृत्तीत्यनुक्तौ संयोगी द्रव्यत्वादित्यादावव्याप्तिः, संयोगाभाववति द्रव्ये द्रव्यत्वस्य वृत्तेः, तदुपादाने च संयोगवद्भिनवृत्तिः संयोगाभावो गुणादिवृत्तिः संयोगाभाव एव, अधिकरणभेदेनाऽभावभेदात् तद्वदवृत्तित्वान्नाव्याप्तिः ।
चान्द्रशेखरीया : तत् असत् । एवं सति साध्याभाववत् इति पदं व्यर्थं स्यात् । यतः साध्यवत्भिन्ने भूतलादौ एतवृक्षत्वस्य अवृत्तित्त्वात् एव लक्षणसमन्वयः । न तत्र साध्याभाववत्पदस्य आवश्यकता । तथा च मूलोक्तं लक्षणं असंगतं स्यात् ।
ચાન્દ્રશેખરીયા: પ્રાચીનોની આ વ્યુત્પત્તિ બરાબર નથી. કેમકે, આ અર્થ કરીએ તો પછી સાધ્યભાવવત એ પદ વ્યર્થ જ બની જાય. સાધ્યવભિન્ન તરીકે ભૂતલાદિ આવે, અને તેમાં એતવૃક્ષત્વ ન હોવાથી લક્ષણસમન્વય થાય. એટલે, સાણાભાવવત્ પદ નકામું બને.
चान्द्रशेखरीया : अस्माकं नव्यानां मते तु साध्यवत्भिन्ने यः साध्याभावः तद्वान् यः, तस्मिन् अवृत्तित्वम् इत्यर्थः । तथा च सप्तमीतत्पुरुषोत्तरं मतुप्प्रत्ययकरणेन व्युत्पत्तिः स्वीकरणीया । एवं च साध्यवभिन्नवृत्तिसाध्याभाववत्-अवृत्तित्वम् इति फलितोऽर्थः । अत्र "साध्यवभिन्नवृत्ति" इति अनुक्तौ, संयोगी द्रव्यत्त्वात् इति अत्र अव्याप्तिः । यतः द्रव्यमपि तत्तद्देशावच्छेदेन संयोगाभाववत् अस्ति एव । तथा च साध्याभाववत् द्रव्यं अपि । तस्मिन् द्रव्यत्वस्य वृत्तित्त्वात् अव्याप्तिः । किन्तु साध्यवभिन्नवृत्तित्वविशेषणे प्रोक्ते नाव्याप्तिः । साध्यवभिन्नं न द्रव्यं । किन्तु गुणादयः । तस्मिन् वृत्तिः यः संयोगाभावः । तद्वान् स गुणः एव । तस्मिन् च द्रव्यत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः ।
न च साध्यवभिन्ने गुणे वृत्तिः यः संयोगाभावः स एव वृक्षादिद्रव्ये वर्तते । अधिकरणभेदेनाऽपि अभावस्य एकत्वाङ्गीकारात्, तथा च तादृशसंयोगाभाववान् वृक्षः, तस्मिन् द्रव्यत्वस्य वृत्तित्त्वात् अव्याप्तिः इति वाच्यम् अत्र कल्पे अधिकरणभेदेन अभावस्य भिन्नत्वात् न दोषः । अर्थात् गुणवृत्तिः साध्याभावो द्रव्यवृत्ति CRORNKIROMORRORORORIORRRORORSCORORORSKIRIROMORRORNORINKIRKOKORORAKORORSCOROTIKRICORORONITORIAYAROIROMKIRAKSHARIRIKOKIRONICIROORKERAKRKAROKAR
વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા - ૬૯
POORRROROROKOMORROROKEKORxORRRRRRRRRROROROKRKERSORORRORAKommoxxxxxoxoROMORRORRKSHORORSCOREASARKARKARKOREAKERAKRRRRRRRRXXXXXXXRINKIXXXXKISIS