________________
द्रव्यत्वाभावाधिकरणं गुणः । तेन निरूपिता वृत्तिताऽपि पूर्वोक्तरीत्यैव वि.सत्तायां वर्तते । तथा च अव्याप्तिः। इदं अत्र अवधेयम् । यत्र हेत्वधिकरणं साध्याभावाधिकरणं च एकमेव मीलति, तत्र न भवति लक्षणसमन्वयः। यत्र च हेत्वधिकरणं साध्याभावाधिकरणम् न भवति, तदा भवति लक्षणसमन्वयः इत्येव अस्य ग्रन्थस्य सारः। तथा च हेत्वधिकरणं गुणः एव साध्याभावाधिकरणं । अतः अव्याप्तिः ।।
किन्तु हेतुतावच्छेदकधर्मावच्छिनत्वस्य निवेशे तु तादृश वि.सत्तात्व-अवच्छिन्नवि.सत्तायाः अधिकरणं द्रव्यमेव । तच्च द्रव्यं न निरुक्तसाध्याभावाधिकरणम् । अतो न अव्याप्तिः ।
यदि हेतुनिष्ठवृत्तितायां हेतुतावच्छेदकसंबंधावच्छिनत्वं न निवेश्यते तदा 'वह्निमान् धूमात्' इति अत्र धूमाभावाधिकरणं धूमावयवः, तेन निरूपिता समवायावच्छिना वृत्तिता धूमे वर्तते ।
तथा वह्नि-अभावाधिकरणं अपि धूमावयवः तथा च हेत्वधिकरणमेव साध्याभावाधिकरणं मीलितं । अतः अव्याप्तिः ।
किन्तु हेतुतावच्छेदकसंबंधावच्छिन्नत्वस्य वृत्तितायां निवेशे न अव्याप्तिः । यतः संयोगावच्छिन्नवृत्तिता एव गृह्यते । तथा च धूमस्य अधिकरणं धूमावयवः न गृह्यते । यतो धूमावयवनिरूपिता संयोगावच्छिना वृत्तिता धूमे नास्ति । अतो महानसादिः एव हेत्वधिकरणं गृह्यते । स च न साध्याभावाधिकरणं इति लक्षणसमन्वयः ।
यदि साध्याभावे साध्याभावत्वविशिष्टत्वं न निवेश्यते । तदा 'गुण: विशिष्टसत्ता-अभाववान गुणत्त्वात्' इति अत्र विशिष्टसत्ता-अभावस्य अभावो विशिष्टसत्तारूप: शुद्धसत्ता-अभिन्नः । तनिरूपिता तादृशी अधिकरणता गुणेऽपि वर्तते । स एव गुणो हेत्वधिकरणं अस्ति । अतः अव्याप्तिः ।
किन्तु साध्याभावत्वविशिष्टत्वस्य निवेशे, वि.सत्ता-अभाव-अभावत्वं वि.सत्तात्वरूपं । तेन अवच्छिन्ना वि.सत्ता एव । न शुद्धसत्ता । तथा च वि.सत्तानिरूपिता तादृशी अधिकरणता द्रव्ये । न तु गुणादौ । एवं च हेत्वधिकरणं गुणः न साध्याभावाधिकरणं । अतो न अव्याप्तिः । ___ अत्र लक्षणे निरुक्तसंबंधसंसर्गक....इत्यादि । तस्यार्थः साध्याभाववृत्तिसाध्यीयप्रतियोगितातत्प्रतियोगितावच्छेदकतान्यतरावच्छेदकसंबंधः एव निरुक्तसंबंधेन ग्राह्यः । तत् च पूर्वं विस्तरतः चर्चितम् । अतो न इह पुनः वितन्यते ।
अधिकरणतायां निरवच्छिन्नत्वस्य अप्रवेशे, 'कपिसंयोगवान् एतवृक्षत्त्वात्' इति अत्र हेत्वधिकरणं एतवृक्षः । कपिसंयोगाभावाधिकरणं अपि मूलावच्छेदेन एतवृक्षः, तथा च हेत्वधिकरणं एव साध्याभावाधिकरणं अतः अव्याप्तिः ।
किन्तु निरवच्छिन्नत्वस्य प्रवेशे.न दोषः । यतः कपिसंयोगाभावस्य निरवच्छिन्ना अधिकरणता गुणादौ एव, न शाखावच्छेदेन कपिसंयोगवति एतवृक्षे । तथा च हेत्वधिकरणं न साध्याभावाधिकरणं । अतो न अव्याप्तिः। ___ यदि सामान्यपदं न प्रक्षिप्यते । तदा धूमवान् वह्नः इति अत्र वह्नः अधिकरणं अयोगोलकादि । धूमाभावस्य अधिकरणं भूतलादि । तत्र भूतलनिरूपितवृत्तितायाः वह्नौ अभावात् लक्षणसमन्वयः । तथा च
womox ONORORIEOMORRRRRRRRORoRAROKAROOOOOOOOOOODomommmmmmmmmmmxxxommoonxxxomoROOOOORoomrommommm
વ્યાપિંચક ઉપર ચાજશેખરીયા નામની સરળટીકા ૦ ૫૯ commomxxxKAKAKIRNORKORORSRIRIRIORKORIARROROKAKIROMOTORORRRORORORoROMORROREMORRO RomxxR000RROROKarorompoornoxoxoxommm