________________
दीधिति:१९
ઉં લેવાની વાત કરી છે. એટલે મહાકાલમાં કાલિકથી તો તમામે તમામ વસ્તુઓ રહેલી હોવાથી કોઈનો અભાવ ન મળતા લક્ષણસમન્વય ન થાય. પરિણામે અવ્યાપ્તિ આવે.
m mm mmmmmmmmmmmm
जागदीशी - व्याप्यवृत्ति-प्रमेयत्वादेः प्रतियोगिवैयधिकरण्याघटितमेव कालिकसम्बन्धाव-च्छिन्नव्यापकत्वं सम्भवत्यत उक्तम्, -अव्याप्यवृत्तीति । तादृशसाध्यं, - घटादिकं , दव्यत्वादिकञ्च, तद्वतोऽपि-कालस्य, -तदनधिकरणदेशावच्छेदेन कालिकसम्बन्धावच्छिन्नतदभाववत्वात्; ___न ह्येवम्विधो वाच्यत्वादिः, तदनधिकरणदेशाप्रसिद्धया तदवच्छेदेन कालिकसम्बन्धावच्छिन्नवाच्यत्वाभावस्य दैशिकविशेषणतया कालेऽसम्भवादिति भावः । न स्यादिति । -तथा च 'कालो घटवान्महाकालत्वा' दित्यादौ व्याप्तिलक्षणाऽव्याप्तिरिति भावः ॥
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
चन्द्रशेखरीया : एवं यदि अव्याप्यवृत्तिपदं नोपादीयते । तदा तु कालिकेन प्रमेयत्ववान् स्वरूपेण महाकालत्वादित्यत्रापि अव्याप्तिः प्रतिपादिता भवेत् । न च तदिष्टम् यतः, प्रमेयत्वं व्याप्यवृत्ति साध्य मस्ति । कथमिति चेत् साध्यतावच्छेदककालिकसम्बन्धेन प्रमेयत्वाधिकरणं यः घटादिः, तत्र कालिकेन प्रमेयत्वस्याभावो न वर्तते । प्रमेयत्वानधिकरणदेशस्यैवअप्रसिद्धत्वात् न तादृशदेशावच्छेदेन घटादौ प्रमेत्वाभावो घटते । तथा च तत्र घटे पर्वतावच्छेदेन कालिकावच्छिन्नास्य पटत्वस्याभावो गृह्यते । तस्य कालिकावच्छिन्नप्रतियोगितायाः अभाव एव प्रमेयत्वे वर्तते । अतः तद् प्रमेयत्वं व्याप्यवृत्ति साध्यमस्ति, व्याप्यवृत्तिपदस्य द्वितीयविवक्षायास्तत्र घटमानत्वात् । इत्थं च प्रमेयत्वसाध्यस्य व्याप्यवृत्तित्वात् तत्स्थले प्रतियोगिव्यधिकरणपदाघटितमेव लक्षणं वाच्यम् । अर्थात् हेत्वधिकरणवृत्यभावस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितायाः अनवच्छेदकं साध्यतावच्छेदकमित्येव लक्षणं भवति । तथा च महाकालत्वाधिकरणे महाकाले कालिकेन गगनस्याभावो वर्तते, तस्य कालिकावच्छिन्नप्रतियोगितायाः अनवच्छेदकं प्रमेयत्वम् इति लक्षणघटनात् नात्रानुमाने ऽव्याप्तिस्संभवति । अतोऽव्याप्यवृत्तिपद-मुपात्तं । तथा च प्रमेत्वस्याव्याप्यवृत्तित्वाभावात् न तत्साध्यकेऽव्याप्तिः प्रतिपाद्यतेऽपितु द्रव्यत्वादिरूपे-अव्याप्यवृत्तिसाध्यके एवाव्याप्तिः प्रतिपादिता भवति । सा च घटते । महाकालत्वाधिकरणे महाकाले यद्यपि घटानधिकरणदेशावच्छेदेन घटाभावः विद्यते । तथापि प्रतियोगितावच्छेदककालिकेन तस्य घटस्याधिकरणमेव महाकालः, अतोऽत्र न कोऽपि अभावः लक्षणघटकत्वेन ग्रहीतुं शक्यः, तस्मादव्याप्तिर्भवत्येव । न च द्रव्यत्वादीनामव्याप्यवृत्तित्वं अप्रसिद्धम् इति वाच्यं, साध्यतावच्छेदककालिकेन द्रव्यत्वाधिकरणे घटादौ गुणावच्छेदेन वर्तमानस्य कालिकावच्छिन्न-द्रव्यत्वाभावस्य या साध्यतावच्छेदककालिकावच्छिन्ना प्रतियोगिता, तस्याः द्रव्यत्वे वर्तमानत्वात् व्याप्यवृत्तिपदस्य द्वितीयविवक्षानुसारेण तद् द्रव्यत्वादिकं अव्याप्यवृत्ति एव भवति। प्रमेयत्ववान् महाकालत्वादित्यत्र तु महाकाले न केनापि प्रकारेण कालिकावच्छिन्नस्य प्रमेयत्वस्याभावः
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmMMMMMMMMMMMmmmmmmmmmmmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૮૪ GOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOBOOR