________________
दीधिति:१७
धर्मव्यापकत्वादेवेत्यर्थः । ( ननु ) 'इयं गौ 'रित्यनुमितिर्गवेतरावृत्तित्वरू पायाः शुद्धगोत्वनिरूपितव्याप्तेानात्समवायेन निरवच्छिन्नगोत्वसाध्यिकै व भविष्यति, साध्यवदन्यावृत्तित्वरूपाया अपि व्याप्तेरनुमितिहेतुत्वस्याग्रे वाच्यत्वादतस्तादृशानुमित्यनुरोधाद्धर्मिणो धर्मव्यापकत्वस्वीकारोऽनुचित इत्यत उक्तं, -गोत्वत्वेति । -गोत्वत्वं =गवेतरावृत्तित्वं,
mmmmmmmmmmmmmmH
m
mmmmmmmmmmmmmmmmmmm mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
चन्द्रशेखरीया : ननु धर्मिणस्तादात्म्येन धर्मव्यापकत्वं कथं जाघटीति इति आशङ्कायां युक्तिमप्याह दीधितिकारः अतः एव इत्यादिना । दीधितग्रन्थस्यायमर्थः-यत्र गोत्वत्वादीनां ज्ञानं नास्ति, तत्र 'यत्र सास्ना सा गौः' इति तादात्म्येन गवि सास्नाव्यापकत्वज्ञानं भवति । तस्माच्च सास्नादिना हेतुना गवि गोस्तादात्म्येनानुमितिः भवति । तादात्म्येन गवाभावाच्चाश्वादौ सास्नाभावज्ञानं भवति । इदं च धर्मिणस्तादात्म्येन धर्मव्यापकत्वसंभवादेव संभवति । अन्यथा तु गोः तादात्म्येन सास्नाव्यापकत्वाभावे न सास्नादिना "इयं गौः" इत्याकारिका तादात्म्येन गो-साध्यिकानुमितिः संभवेत् । तस्मात् धर्मिणो धर्मव्यापकत्वं अनयाऽनुमित्या सिध्यति इति स्वीकर्तव्यम् ।
अधुना जागदीश्यां दीधितिग्रन्थोक्तस्य "गोत्वत्वाद्यग्रहदशायामि"ति पदस्य प्रयोजनं प्रकटीकर्तुं । पूर्वपक्षमुखेन भूमिकामारचयति जगदीशः ननु इत्यादिना । अयं भावः, पूर्वपक्षः प्रश्नयति यत् 'इयं गौः' इत्यनुमित्या यूयं तादात्म्येन गोः सास्नाव्यापकत्वं स्वीकृतवन्तः । यदि च इयमनुमितिः तादात्म्येन गोसाध्यिका अस्ति, तदा "गोनिरूपितव्याप्तिविशिष्टसास्नावतीयं" इत्येव परामर्शात् इयमनुमितिः उत्पद्यते । किन्तु वयं तु एतन्न मन्यामहे । यतो वयं एतन्मन्यामहे यत् "शुद्धगोत्वनिरूपितव्याप्तिविशिष्टसास्नावतीयं" इत्येव परामर्शो भवति । तेनैव परामर्शेन "इयं गौः" इति अनुमितिः समुत्पद्यते । तथा च इयमनुमितिः न तादात्म्येन गोसाध्यिकाऽपि तु समवायेन शुद्धगोत्वसाध्यिकैव । गोत्वनिरूपितव्याप्तिविशिष्टत्वस्य सानायां ज्ञानं कथं भवतीति चेत् इत्थं, गोत्वत्वं नाम गवतरावृत्तित्वं गोत्ववद्भिन्नावृत्तित्वमिति यावत् तच्च व्याप्तिरेव । अग्रे चिन्तामणिग्रन्थे केवलान्वयिग्रन्थे "साध्यवद्भिन्नावृत्तित्वात्मिका व्याप्तिः अपि अनुमितिकारणं भवति" इति । वक्ष्यते । तथा च सास्नायां गोत्ववद्भिन्नावृत्तित्वरूपायाः गोत्वनिरूपितायाः व्याप्तेः ज्ञानं संभवति । तज्ज्ञानाच्च "इयं गौः" इत्यनुमितिः संभवति । तत्र च गोत्वं एव साध्यं । यन्निरूपितव्याप्तिविशिष्टस्य पक्षधर्मताज्ञानं, तस्यैवानुमितिर्भवतीति नियमात् । यथा वह्निनिरूपितव्याप्तिविशिष्टस्य धूमस्य पक्षधर्मताज्ञानात् वढेरेवानुमितिर्भवति । आर्टेन्धननिरूपितव्याप्तिविशिष्टस्य धूमस्य पक्षधर्मताज्ञानात् तु आर्टेन्धनस्यैवानुमितिर्भवति । एवमत्रापि गोत्वनिरूपितव्याप्तिविशिष्टायाः सास्नायाः पक्षधर्मताज्ञानात् समुत्पन्नाऽनुमितिरपि गोत्वसाध्यिकैव स्वीकर्तव्या । तथा च तदनुमित्यनुरोधेन तादात्म्येन गोः सास्नाव्यापकत्वं सिद्धं भवति । अतो धर्मिणो धर्मव्यापकत्वस्वीकारोऽनुचितः इति ।
ચન્દ્રશેખરીયા : ‘તાદાસ્પેન ધર્મ એ ધર્મને વ્યાપક બને છે એ વાત સાબિત કરવા માટે દીધિતિમાં હું યુક્તિઓ પણ આપે છે કે, તાદાસ્પેન ગોમાન્ સાસ્નાવત્થાત્ એ અનુમાનમાં જ્યારે ગોત્વવાદિનો બોધ નથી
ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા • ૫૮