________________
दीधिति: १६
जगदीशी - पक्षविशिष्टेति । - पक्षविषयकेत्यर्थः, प्राचां मते पक्षविशेष्यकज्ञानस्येव पक्षप्रकारकज्ञानस्यापि
कारणत्वात् ।
धूमावयव इति । 'न' 'वह्निधी 'रित्यन्वयः ।
( धूमावयवे समवायेन तादृशधूमवत्वग्रहेऽपि न वह्न्यनुमितिः, पर्वते च संयोगेन धूमवत्त्वग्रहेऽपि न समवायेन वन्यनुमितिरित्यर्थः । कथमिति । - 'नियम उपपद्यत' इति परेणान्वयः । )
―
-
महानसे संयोगेनेति । – ‘न निवर्त्तते' इत्यन्वयः, न संयोगावच्छिन्न- स्वाभावोऽनुमितौ भासत इति तदर्थः । निवर्त्तते चेति । 'धूम' इति पूर्वेणान्वयः । तादात्म्येनैवेति । समवायेन व्याप्यतायान्तु समवायेन जलस्यात्यन्ताभाव एव सिध्येदिति, - जलभेदसाधनार्थ तद्ग्रन्थावतारो न स्यादिति भावः ।
चन्द्रशेखरीया : अत्र यद्यपि दीधित्यां 'तस्य पक्षविशिष्टत्वज्ञाने = हेतोः पक्षविशिष्टत्वज्ञाने' इत्युक्तं । तस्यार्थस्तु “हेतुप्रकारकपक्षविशेष्यके ज्ञाने सति" इत्याकारको भवति । किन्तु न स उचितः । यतः प्राचां मते हेतुविशेष्यकपक्षप्रकारकात् ज्ञानात् "पर्वते धूमः" इत्याकारकादपि अनुमितिर्भवति । अतः ज्ञानद्वयसंग्रहार्थं " तस्य पक्षविशिष्टत्वज्ञाने" इति पदस्य " तस्य पक्षविषयकज्ञाने" इत्येवार्थः कर्तव्यः । ज्ञानद्वयस्यापि पक्षविषयकत्वात् संग्रहो भवति इति न दोषः । अथ प्रकृतं प्रस्तुमः, यदि हि यत्र केनापि सम्बन्धेन धूमः, तत्र केनापि सम्बन्धेन वह्निः इति अनियतसम्बन्धघटिता व्याप्तिः स्वीक्रियेत, तदा धूमावयवे समवायेन धूमज्ञानात् धूमावयवे संयोगेन वह्निज्ञानं भवेत् । एवं पर्वते संयोगेन धूमज्ञानात् पर्वते समवायेन वह्निज्ञानं भवेत्, न च भवति । तस्माद् व्याप्यतावच्छेदकसम्बन्धेन यत्र हेतुज्ञानं भवति, तत्रैव व्यापकतावच्छेदकसम्बन्धेन साध्यानुमितिः भवति इति सिद्धम् ।
1
एवं यथा अन्वयव्याप्तिः नियतसम्बन्धघटिता भवति । तथैव यत्र गृहीतेन व्यापकतावच्छेदकसम्बन्धेन संयोगादिना साध्यस्य=वह्नेः अभावो ज्ञायते, तत्र गृहीतेनैव व्याप्यतावच्छेदकसम्बन्धेन संयोगादिना हेतोः धूमस्य अभावः ज्ञायते इति नियमः । यदि एवं न स्वीक्रियेतापि तु "यत्र केनापि सम्बन्धेन व्यापकस्याभावः, तत्र केनापि सम्बन्धेन व्याप्यस्याभाव:" इति मन्येत, तदा तु महानसे समवायेन वह्नि अभावोऽस्ति, अतस्तत्र संयोगेन धूमाभावः सिध्येत् । धूमावयवे संयोगेन वह्नि - अभावोऽस्ति, अतस्तत्र समवायेन धूमाभावः सिध्येत्। न च सिध्यति । तस्मात् यथोदितो नियमः स्वीकार्यः । एवं च प्रकृते यदि 'जलं समवायेन हेतु:' इति मन्येत, तदा पृथिव्यां स्वरूपेण पृथ्वीत्वाभावस्याभावो वर्तते इति ज्ञानात् पृथिव्यां समवायेन जलस्याभाव एव सिध्येत् न च जलभेदः, अतो जलभेदसाधनार्थं तादात्म्येनैवात्र जलं हेतुरिति स्वीकर्तव्यम् ।
ચન્દ્રશેખરીયા ઃ આમાં જો કે, દીધિતિમાં હેતુની પક્ષવિશિષ્ટતાનું જ્ઞાન લીધેલ છે. પણ એમ માનીએ તો માત્ર ‘પર્વતો ધૂમવાન્’ જ્ઞાન જ કારણ બને. જ્યારે પ્રાચીનો તો જેમ પક્ષવિશેષ્યક હેતુપ્રકારક એવા જ્ઞાનને
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૫૫