________________
दीधितिः१५ ALOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOOODOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOD
-सम्बन्धविशेषस्यात्र निवेशे स्थित इत्यर्थः । सामानाधिकरण्यादाविति । 'आदि' पदेन हेतुसामानाधिकरण्यप्रविष्टहेत्वधिकरणत्वस्य परिग्रहः । __ प्रयोजनमाह, - तथा चेति । धर्मिणोऽपीति । तादात्म्येन व्याप्यत्वं, व्यापकत्वञ्च निर्वहतीत्यर्थः, अन्यथा तादात्म्येन हेतोः साध्यस्य चाधिकरणाप्रसिद्धया न तन्निर्वाह इति भावः ।
योऽन्योन्याभाव इति । -'योऽभाव' - इत्येव वक्तुमुचितम्, अन्योन्याभावत्वनिवेशे वैयादिति ध्येयम् । तद्नवच्छेदकवह्निमत्वेति । - वह्निमत्त्वं वक़्यधिकरणत्वं, तच्चाधिकरणव्यक्तीनां भेदेप्यभिन्नमित्याशयेनेदम् ।
Ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmp
चन्द्रशेखरीया : ननु साध्यसामानाधिकरण्ये साध्यतावच्छेदकसम्बन्धेन साध्याधिकरणं हेतुतावच्छेदकसम्बन्धेन च हेत्वधिकरणं ग्राह्यम् इति तावत् भवतोक्तम् किन्तु एवमुक्ते सति 'तादात्म्येन वह्निमान्' यत्र साध्यं, तादात्म्येनैव च धूमवान् यत्र हेतुः, तत्राव्याप्तिर्भवेत् । यतः अत्र तादात्म्येन वह्निमतः अधिकरणस्य, तादात्म्येन च धूमवतः अधिकरणस्यैव अप्रसिद्धिः इति चेत् न प्रथमं तावत् साध्यसामानाधिकरण्यादौ साध्यतावच्छेदकसम्बन्धेन साध्याधिकरणं हेतुतावच्छेदकसम्बन्धेन च हेत्वधिकरणमवश्यं वाच्यम् अन्यथा प्रागुक्तदोषप्रसङ्गात् । एवं सति तादात्म्येन यत्र साध्यं हेतुश्च तत्राव्याप्तिः यदि भवति । तदा तु तद्वारणाय सर्वत्र अधिकरणपदं परित्यज्य संबंधिपदं ग्राह्यम् । इत्थं च वह्निमान् पर्वतो धर्मिरूपो धूमवदात्मकर्मिणः व्यापको भवति । तथा धूमवान् पर्वतो धर्मिरूप: वह्निमदात्मकर्मिणः व्याप्यो भवति । तथा हि हेतुतावच्छेदक सम्बन्धेन तादात्म्येन धूमवदात्मकस्य हेतोः सम्बन्धी पर्वतः, तत्र वह्निमर्दोदो नास्ति, किन्तु घटभेदोऽस्ति, तस्य साध्यतावच्छेदकतादात्म्यावच्छिन्नायाः प्रतियोगितायाः अनवच्छेदकं वह्निमत्त्वं, तदवच्छिनो वह्निमान्, तादात्म्येन वह्निमतः सम्बन्धी पर्वतः, तत्र पर्वते तादात्म्येन संबंधित्वं धूमवतः हेतोः इति लक्षणसमन्वयः । अत्र दीधित्यां "योऽन्योन्याभावः" इति लिखितमस्ति, तत्र अन्योन्यपदं निरर्थकं, तादात्म्यावच्छिन्नप्रतियोगितायाः विवक्षणादेव अन्योन्याभावस्य लाभः सुकरः । अतो अन्योन्यपदं प्रामादिकं ज्ञेयम् । न च वह्निमत्वं यदि वह्निरेव, तदा तु “पर्वतो महानसीय.वह्निमान् न, पर्वतः चत्वरीयवह्निमान् न, महानसः पर्वतीयवह्निमान् न" इत्यादिरीत्या सर्वे एव वह्निमभेदाः लक्षणघटकाः, तत्प्रतियोगितावच्छेदकाः सर्वे एव वह्नयः वह्निमत्वरू पाः चालनीन्यायेन भवन्ति । तथा चाव्याप्तिस्तदवस्थैव इति वाच्यम् वह्निमत्वमत्र वन्यधिकरणत्वरू पं बोध्यं । न च तथापि "पर्वतः महानसीय वहिन्यधिकरणं न, पर्वतः चत्वरीयवह्नयधिकरणं न, महानसः पर्वतीयवह्नयधिकरणं न" इत्यादिरीत्या सर्वाणि वहिन्यधिकरणत्वानि तादृशप्रतियोगिता-वच्छेदकानि एव चालनीन्यायेन भवन्ति । तत्कथमव्याप्तिनिरासो भवेत् इति वाच्यम् वन्यधिकरणानां पर्वतमहानसचत्वरादीनां परस्परं विभिन्नत्वेऽपि तेषु सर्वेषु वन्यधिकरणत्वं तु एकमेवाभिमतम् । तथा च पर्वते या वन्यधिकरणता, सैव महानसेऽपि वर्तते । एवं महानसे या वन्यधिकरणता सैव
पर्वतेऽपि वर्तते । इत्थं च 'पर्वतः महानसीयवह्नि-अधिकरणतावान् न' इति वक्तुं न शक्यते, अतो न FOODOODDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDOOOOOOR
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૪૯
COOOOOOOOOOODIOOOOOOOOOOOOOOOOOOOOOOOO00000000000000000OOOOOOOOOOOOOOOOOOOOOOOOOOO000000000000000000000000000000000OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOB