________________
दीधिति: २२
जगदीशी - अतिरिक्तविषयतापक्षस्य नैयायिकेनापि केनचित्स्वीकारात्तस्य दृष्टान्तता । तत्त्वादीति । - विषयतात्वादीत्यर्थः । आदिना प्रकारित्वादेः परिग्रहः ।
Coनननन
चन्द्रशेखरीया : अत्र केचित् नैयायिकाः विषयतादिपदार्थान् सप्तपदार्थभिन्नत्वेन स्वीकुर्वन्ति । अतः अत्र विषयतादिपदार्थाः दृष्टान्तत्वेन गृहीताः । दीधित्यां यत् विषयता - तत्वादि....इति पदमस्ति, तत्र तत्वं=विषयतात्वं । आदिपदेन प्रकारित्वादीनां सङ्ग्रहः कर्तव्यः । एवं प्रतियोगित्वाधिकरणत्वतत्वसम्बन्धत्वादयो इत्यत्र तत्वं = 'प्रतियोगितात्वाधिकरणतात्वादि' इत्यर्थः कर्तव्यः ।
ચન્દ્રશેખરીયા ઃ આ વિષયિતા વગેરે પદાર્થો કેટલાંક નૈયાયિકોએ પણ સ્વતંત્ર પદાર્થ તરીકે સ્વીકારેલા હોવાથી દીષિતિકારે તેમને દૃષ્ટાન્ત તરીકે લીધા છે.
जगदीशी चित् "तत्त्वं तत्ता, आदिना चेदन्त्वस्योपग्रहः, तत्त्वेदन्त्वयोः पदार्थान्तरत्वं विना दुर्वचत्वात्तत्रैव पर्य्यवसानादित्याहुः ) । तत्त्वेति । - प्रतियोगितात्वाधिकरणतात्वेत्यर्थः ॥२२॥ ॥ इति ॥
श्री जगदीशतर्कालङ्कारविरचितायामनुमानखण्डदीधिति - व्याख्यानभूतायां जगदीश्याख्यया प्रसिद्धायां विवृतौ सिद्धान्तलक्षणम् ।
चन्द्रशेखरीया : केचित् तु इत्थं कथयन्ति 'विषयतातत्वादिवत्' इत्यत्र तत्वं नाम तत्ता एव । आदिपदेन इदन्त्वं ग्रहीतव्यम् । तथा च इदन्त्वतत्तयोः पदार्थान्तरत्वं अवश्यमेवाभ्युपगन्तव्यम् । अन्यथा इदन्त्वादीनां प्रकारान्तरेण निर्वचनं कर्तुं न शक्यं भवति । अतः विषयतात्वेदत्वादीनां यथा सप्तपदार्थभिन्नत्वं अवश्यं अभ्युपेयते । एवं प्रतियोगित्वादीनामपि पदार्थान्तरत्वं मन्तव्यम् । तथा च न पूर्वोक्तदोषावकाशः । अत्र यद्यपि केषाञ्चित् मतं सम्यक् । तथापि इदन्त्वस्य पदार्थान्तरत्वं विनैव कथंचित् निर्वचनस्य कर्तुं शक्यत्वात् आदिपदेनेदन्त्वग्रहणं कृत्वा तस्य भिन्नपदार्थत्वाङ्गीकारो न समुचितो भाति । अतः "आहुः" इत्यनेन अस्वरसो जगदीशेन व्यक्तीकृतः । समाप्तोऽयं सिद्धान्तलक्षणाभिधानो ग्रन्थः । अत्र व्याप्यवृत्तिसाध्यकस्थले प्रतियोगिव्यधिकरणपदाघटितमेव लक्षणं 1 तच्च हेतुमन्निष्ठाभावस्य साध्यतावच्छेदकसम्बन्धभिन्नसम्बन्धावच्छिन्नत्व-साध्यतावच्छेदकव्यापकतो भयोभाववती या प्रतियोगिता, तदनवच्छेदकं यत् साध्यतावच्छेदकं, तदवच्छिन्नं यत् साध्यं, तत्सामानाधिकरण्यं हेतु निष्ठा व्याप्तिः " इत्याकारं दृष्टव्यम् I अव्याप्यवृत्तिसाध्यकस्थले "यादृशप्रतियो गितावच्छेदकावच्छिन्नानधिकरणं हेत्वधिकरणं, तादृशप्रतियोगितायां
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૨૦૫
तु