________________
दीधिति:२१
जागदीशी - तथात्वेऽपि तेन सम्बन्धेन रूपसामानाधिकरण्याप्रसिद्ध्यैव व्याप्ति लक्षणातिव्याप्तिविरहात्, 'यद्धर्मे' त्यत्र धर्मस्य साध्यतावच्छेदकसम्बन्धावच्छिन्ना धिकरणतानिरूपकतावच्छेदकत्वेनापि विशेषणीयत्वाद्वा ।
(तेन वह्नयाकाशोभयत्वादिनाऽपि न व्यापकत्वमिति ।)
चन्द्रशेखरीया : भवतु । तथापि व्याप्तिलक्षणस्यातिव्याप्तिः न भवति । यतः साध्यतावच्छेदकसंयोगेन रूपाधिकरणस्यैवाप्रसिद्धत्वात् पृथ्वीत्वे रूपसामानाधिकरण्यरूपा व्याप्तिः न विद्यते । तथा चात्र व्याप्तिलक्षणमतिव्याप्तं न भवति । अतः संयोगेन रूपस्य पृथ्वीत्वव्यापक त्वेऽपि व्याप्तिलक्षणातिव्याप्त्यभावात् न दोषः । ननु तथापि संयोगेन रूपस्य कुत्रापि वर्तमानत्वाभावात् संयोगेन रूपस्य पृथ्वीत्वव्यापक त्वमसमञ्जसमिवाभाति इति चेत् तर्हि यधर्मावच्छिन्नात्वमित्यत्र साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणतानिरूपकतावच्छेदकत्वविशिष्टो यः साध्यतावच्छेदकधर्मः तदवच्छिन्नात्वघटितं लक्षणं वाच्यम् । रूपं संयोगेन यदि कुत्रापि वर्तते । तदा रूपे संयोगावच्छिन्नाधिकरणतानिरूपकता भवेत् तदा च रूपत्वं तदवच्छेदकं भवेत् । किन्तु संयोगेन तु केवलं द्रव्यमेव घटादौ वर्तते । तदा रूपे संयोगावच्छिनाधिकरणतानिरुपकता भवेत् । तदा च रुपत्वं तदवच्छेदकं भवेत् । किन्तु संयोगेन तु केवलं द्रव्यमेव घटादौ वर्तते । तथा च साध्यतावच्छेदकसंयोगावच्छिन्नस्य जलस्याधिकरणता घटे वर्तते, तन्निरूपकतायाः जलनिष्ठाया अवच्छेदकं जलत्वं भवति, न तु रूपत्वं । अतोऽत्र तादृशनिरूपकतावच्छेदकतावच्छेदक-साध्यतावच्छेदकधर्मस्यैवाप्रसिद्धत्वात् न तादृशधर्मावच्छिन्नत्वघटितलक्षणस्य समन्वयो भवति । एवञ्च न संयोगेन रूपं पृथ्वीत्वव्यापकं भवति । इत्थञ्च वह्निधूमोभयवान् वह्नरित्यादावपि नातिव्याप्तिः । साध्यतावच्छेदकसंयोगसम्बन्धेन वह्निधूमोभयं न कुत्रापि वर्तते, तदधिकरणतानिरूपकता वह्नयादौ, तदवच्छेदकं वह्नित्वं, तादृशनिरूपकतावच्छेदकं वह्निधूमोभयत्वं न भवति । अतः, तादृशनिरूपक तावच्छेदक साध्यतावच्छेदक वह्निधूमो भयत्वस्यैव अप्रसिद्धत्वात्, तादृशधर्मावच्छिन्नत्वाभावघटितं लक्षणमपि न समन्वितं भवति । तथा च नातिव्याप्तिः । अत्र वह्निधूमोभयवान् धूमादित्यत्रापि संयोगावच्छिन्नधूमाद्यधिकरणतानिरूपकतावच्छेदकस्य वह्निधूमो भयत्वस्याप्रसिद्धत्वात् तत्रापि तादृशधर्मावच्छिन्नत्वाभावघटितलक्षणसमन्वयासंभवाद् समुत्पद्यमानाऽव्याप्तिः कथंकारेण वारणीया इति चिन्त्यम् ।
ચન્દ્રશેખરીયા : ઉત્તર : ભલે, આ રીતે સંયોગથી રૂપ એ વ્યાપક બને પણ તો ય વ્યાપ્તિનું લક્ષણ તો અતિવ્યાપ્તિવાળું નહીં જ બને. કેમકે સંયોગથી રૂપના અધિકરણમાં સમવાયથી વૃત્તિતાવાળા પૃથ્વીત્વમાં તાદશ રૂપસામાનાધિકરણ્ય સ્વરૂપ વ્યાપ્તિ મળે. પરંતુ એ તો અહીં મળવાનું જ નથી. કેમકે રૂપનું સંયોગથી અધિકરણ પ્રસિદ્ધ જ નથી એટલે પૃથ્વીત્વમાં રૂપસામાનાધિકરણ્યસ્વરૂપ વ્યાપ્તિ તો નથી જ ઘટવાની. એટલે અતિવ્યાપ્તિ ન આવે.
પ્રશ્ન : આ તો વિચિત્ર વાત છે. સંયોગથી રૂપ વ્યાપક બને, એનો સ્વીકાર તો શી રીતે કરી શકાય?
limmitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm0000000000
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૮૧