________________
दीधितिः२१ A00000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000
जागदीशी - 'घटवृत्तित्वविशिष्टद व्यत्ववान् घटत्वा' दित्यादावव्याप्त:, तादृशद्रव्यत्वभेदमादाय कथञ्चित्तत्र लक्षणसमन्वयेऽपि, –'दधित्वविशिष्टप्रमेयवान्स्थूलदधित्वा' दित्यत्राव्याप्तिः, केनापि सम्बन्धेन हेतुमतः साध्यतावच्छेदकावच्छिन्नानधिकरणत्वासम्भवात्,
00000000mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
0000000000000000000000000000000000000000000000000
चन्द्रशेखरीया : न तथा सति घटवृत्तित्वविशिष्टद्रव्यत्ववान् घटत्वादित्यत्र अव्याप्तिप्रसंगात् । तथाहि यत्र घटत्वं तत्र घटवृत्तित्वविशिष्टद्रव्यत्वं वर्तते एव इति अयं सद्धेतुः, भवदुक्तन्यायेन तु घटवृत्तित्वविशिष्टद्रव्यत्वाभाव एव लक्षणघटकत्वेन ग्राह्यः स च न शक्यते ग्रहीतुं । यतो यदि समवायेन निरुक्तद्रव्यत्वस्य अभावो गृह्यते, तदा प्रतियोगितावच्छेदकसम्बन्धः समवायः, तेन सम्बन्धेन साध्यतावच्छेदकावच्छिन्नस्य घटवृत्तित्वविशिष्टद्रव्यत्वस्याधिकरणमेव घटत्वाधिकरणं घटः इति न तेन सम्बन्धेन तदभावो ग्रहीतुं शक्यः । यदि पटानुयोगिकसमवायेन घटवृत्तित्वविशिष्टद्रव्यत्वाभावो गृह्यते, तदा तु प्रतियोगितावच्छेदकः पटानुयोगिकसमवायः, तेन सम्बन्धेन घटवृत्तित्वविशिष्टद्रव्यत्वस्याधिकरणमेवाप्रसिद्धम् । अतः तेन सम्बन्धेन तदनधिकरणं हेत्वधिकरणमेव घटः इति न सोऽपि गृह्यते । इत्थञ्च केनापि प्रकारेण लक्षणसमन्वयासंभवात् अव्याप्तिर्भवेत् । न च तादात्म्येन घटवृत्तित्वविशिष्टद्रव्यत्वाभावो गृह्यताम्, तथा च प्रतियोगितावच्छेदकतादात्म्येन साध्यतावच्छेदकावच्छिनघटवृत्तित्वविशिष्टद्रव्यत्वाधिकरणं तादृशद्रव्यत्वम् एव, तदनधिकरणं घटः, तद्वृत्तिनः तादात्म्येन तादृशविशिष्टद्र व्यत्वाभावस्य प्रतियोगितायां कालिकावच्छिन्नत्वाभावोऽस्ति, अतो नाव्याप्तिः भवतीति वाच्यम् अनया रीत्या लक्षणसमन्वयसंभवेऽपि दधित्वविशिष्टप्रमेयवान् स्थूलदधित्वात् इत्यत्र तादात्म्येन साध्यतायामव्याप्त्यापत्तिः दुर्वारा भवति । अस्यानुमानस्य विस्तरतो निरूपणमत्रैव ग्रन्थेऽष्टादशकारिकायां प्रतिपादितम् । अतो न पुनः विस्तरावश्यकता। तथापि स्थानाशून्यार्थं मुग्धजनविबोधनार्थञ्च किञ्चिदुच्यते । अत्र यत्र समवायेन दधित्वं, समवायेनैव चान्यत् किमपि प्रमेयं वर्तते । तत्र तत्प्रमेयं समवायघटितसामानाधिकरण्येन दधित्वविशिष्टप्रमेयं भवति । तदेव तादात्म्येन साध्यमिति तु फलितोऽर्थः । यथा द्वयणुके समवायेन वर्तमानं त्र्यणुकदधि निरुक्तसम्बन्धेन (द्वयणुकदधिवृत्ति) दधित्वविशिष्टं प्रमेयं भवति । तच्च तादात्म्येन स्थूलदधित्ववति त्र्युणकदनि वर्तते । एवं चतुरणुकदध्यादिष्वपि तादात्म्येन तादृशविशिष्टं चतुरणकदध्यादिस्वरूपं प्रमेयं वर्तमानं अस्ति । अतो यत्र स्थूलदधित्वं तत्र सर्वत्र दधित्वविशिष्टप्रमेयस्य सत्वात् अयं सद्धेतुः । किन्तु भवदुक्तरीत्याऽत्र लक्षणसमन्वयो दुःशकः । तथा हि-यदि समवायेन दधित्वविशिष्टप्रमेयाभावो गृह्यते, तदा प्रतियोगितावच्छेदकः समवायः, तेन सम्बन्धेन साध्यतावच्छेदकावच्छिन्नस्य दधित्वविशिष्टप्रमेयस्य चतुरणुकपञ्चाणुकादिस्वरूपस्याधिकरणमेव त्र्यणुकचतुरणुकदध्यात्मकं हेत्वधिकरणम् इति न स अभावो गृह्यते । यदि तादात्म्येन तदभावो गृह्यते, तदा तादात्म्येनापि दधित्वविशिष्टप्रमेयस्य त्र्यणुकद्धयादिरूपस्याधिकरणमेव त्र्यणुकचतुरणुकादिदधिस्वरूपं हेत्वधिकरणम् । तथा च लक्षणसमन्वयासंभवात् अव्याप्तिः ।
ચન્દ્રશેખરીયા : ઉત્તર ઃ ઘટવૃત્તિત્વવિશિષ્ટદ્રવ્યત્વવાનું ઘટવાત આ સ્થાને અવ્યાપ્તિ આવે. અહીં ઘટવૃત્તિત્વવિશિષ્ટદ્રવ્યત્વ એ ઘટાનુયોગિક-સમવાયથી જ રહે છે. એટલે એનો જો એ સંબંધથી અભાવ લો,
0
0
mm0000000
0000000
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૦૦ GOODOOOOOOMOOOOOOOOOOOOOOOOOOOD000000000000OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODBODODOORABODOTOOB
6000