________________
दीधिति:२१
तथा च-तदभावप्रतियोगिताया,-धर्मविधया समवायेन, सम्बन्धविधया संयोगेन चावच्छेद्यत्वाभावान्नाव्याप्तिरिति भावः ।
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
___ चन्द्रशेखरीया : ननु साध्यतावच्छेदको धर्म सम्बन्धौ सर्वत्र भवत एव, अतः साध्यतावच्छेदक सम्बन्धावच्छिन्नात्व-साध्यतावच्छेदक धर्मावच्छिन्नात्वघटितलक्षणं परित्यज्य धर्मसम्बन्धपदाघटितमेव साध्यतावच्छेदकावच्छिन्नत्वा भावघटितम् लक्षणं वक्तव्यम् । न च तथा सति समवायेन वह्नित्वावच्छिन्नवह्निसंबंधिभिन्नः एव पर्वतः । अतः समवायेन वन्यभावप्रतियोगिताऽपि सामान्यान्तर्गता भवति । तस्याञ्च साध्यतावच्छेदकवह्नि-त्वावच्छिन्नत्वसत्वात् तदभावो न विद्यते । तथा चाव्याप्तिः भवति वह्निमान् धूमादित्यत्रानुमाने इति वाच्यम्। यावन्तः साध्यतावच्छेदकाः, तदवच्छिन्नत्वाभावस्य विवक्षितत्वात् । अत्र च संयोगसम्बन्धोऽपि साध्यतावच्छेदको अस्ति । समवायेन वन्यभावप्रतियोगितायां संयोगावच्छिन्नत्वासत्वात् यावत्साध्य-तावच्छेदकावच्छिन्नत्वस्याभावो वर्तत एव । तथा च प्रतियोगितासामान्ये यावत्साध्यतावच्छेदकावच्छिन्नत्व-अभावस्य सत्वात् लक्षणसमन्वयो भवत्येव । तत्कथं सम्बन्धधर्मोपादानं कृतमिति न सम्यग् जानीमहे इति चेत् अत्रोच्यते । एवं सति 'संयोगेन समवायिमान् घटत्वादि'त्यत्र यत्र समवायेन घटत्वं तत्र सर्वत्र घटादौ संयोगेन पवनाद्यात्मकसमवायिनां सत्वात् अयं सध्धेतुः, किन्तु अत्राव्याप्तिर्भवेत् । तथाहि समवायेन संयोगिसामान्याभावो गृह्यते, तत्र प्रतियोगितावच्छेदकसमवायसम्बन्धेन संयोगिनिष्ठप्रतियोगितावच्छेदक-संयोगित्वावच्छिन्नसंयोगी कपालादौ वर्तते, न तु घटे । घटस्यान्त्यावयवित्वात् तस्मिन् किमपि संयोगिद्रव्यं न समवायेन वर्तते । किन्तु कपालादौ एव घटादिस्वरुपसंयोगिद्रव्यमेव समवायेन वर्तते । तथा च समवायेन संयोगिसंबंधि कपालादि, तद्भिन्नः घटः हेत्वधिकरणम्, तत्र च समवायेन संयोग्यभावो वर्तते । तत्प्रतियोगिता च समवायसम्बन्धावच्छिन्ना संयोगधर्मावच्छिन्ना च अस्ति । साध्यतावच्छेदको अपि समवायसंयोगौ एव । तथा चास्यां प्रतियोगितायां यावत् साध्यतावच्छेदकावच्छिन्नत्वसत्वात् प्रतियोगितासामान्ये न उभयाभावो वर्तते । एवञ्चाव्याप्तिर्भवेत् । सम्बन्धधर्मपदोपादाने तु नायं दोषः, यतः संयोगिनिष्ठा प्रतियोगिता समवायसम्बन्ध-अवच्छिन्ना यद्यपि अस्ति, तथापि साध्यतावच्छेदकसमवायधर्मावच्छिन्ना नास्ति । समवायोऽत्र साध्यतावच्छेदकधर्मः, न तु सम्बन्धः इति ध्येयम् । एवं इयं प्रतियोगिता संयोगधर्मावच्छिन्ना यद्यप्यस्ति, तथापि साध्यतावच्छेदकसंयोगसम्बन्धावच्छिन्ना नास्ति । संयोगोऽत्र साध्यतावच्छेदकसम्बन्धः न तु धर्मः इत्यपि ध्येयम् । एवञ्च तस्यामपि सुतरामुभयाभावस्य सत्वात्, प्रतियोगितासामान्ये निरुक्तोभयाभावसत्वात् नाव्याप्तिः भवति । अत्र यदि प्रतियोगितासामान्ये साध्यतावच्छेदकसम्बन्धावच्छिन्नात्वमात्राभावो विवक्ष्यते । तदा त 'समवायेन समवायिमान घटत्वादित्यत्राव्याप्तिः भवेत् । यत्र समवायेन घटत्वं तत्र समवायेन गुणकर्मजात्यादिरूपं समवायि साध्यं वर्तत एव । अतोऽयं सद्धेतुः किन्तु तथापि साध्यतावच्छेदकसमवायेन घटीयप्रतियोगितावच्छेदकघटत्वावच्छिन्नघटसंबंधि कपालं, तद्भिन्नश्च घटो भवति । अतो घटनिष्ठा प्रतियोगिता गृह्यते, तस्याञ्च साध्यतावच्छेदक समवायावच्छिन्नात्वं वर्तते, इत्थञ्च प्रतियोगितासामान्ये
ammilimmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૦૦
ToddddddddDDODadasanddodadaaaaaaaaaaaaaaaaaaaaadTOOOOOOOOOOOOOOOOOOOOOOOOOOOGaduddadaTOOOOOOOOOOOOOOOODaanadaaaaaaaaaaaaaaaaadamoddudaasB