________________
दीधिति:२०
जागदीशी -'यत्किञ्चि'दित्यस्य फलमाह, - धूमसंयोग इति । अन्यथा वह्नयधिकरणमहानसानुयोगिकत्व-धूमप्रतियोगिकत्वोभयस्यैव धूमवान् वह्ने रित्यादावतिप्रसङ्गः स्यादिति
भावः । षष्ठयन्तद्वयं, -'विरहा 'दित्यन्वयि ।
dung
चन्द्रशेखरीया : लक्षणे हेत्वधिकरणीभूतयत्किचित्व्यक्त्यनुयोगिकत्वं प्रविष्टम् । तत्र यदि यत्किचित्पदं । नोपादीयेत, तदा हेत्वधिकरणीभूतसर्वव्यक्त्यनुयोगिकत्वाभावो विवक्षितो भवेत् । तथा च 'धूमवान् वह्नरि'त्यादौ महानसीयसंयोगे संयोगसामान्यान्तर्गते धूमप्रतियोगिकत्वस्य महानसानुयोगिकत्वस्य च सत्वात् महानसीयसंयोगे सर्वहेत्वधिकरणानुयोगिकत्वसामान्याभावो न वर्तते । तथा च महानसीयसंयोगे तादृशोभयाभावासत्वात् न धूमाभावो लक्षणघटकोऽपि तु घटाद्यभावः, घटप्रतियोगिकेषु संयोगेषु पर्वतचत्वरायोगोलकादि सर्वाधिकरणानुयोगिकत्वसामान्याभावस्य सत्वात्, पर्वतादि-अनुयोगिकसंयोगेषु च घटाभावप्रतियोगिता वच्छेदकघटत्वावच्छिन्नघटप्रतियोगिकत्वसामान्याभावस्य सत्वात्, तदितरसंयोगेषु चोभयाभावस्य सत्वात् सर्वेषु संयोगेषु तादृशोभयाभावो वर्तते । तथा च घटाभावमादायातिव्याप्तिर्भवेत् । तद्वारणाय यत्किचित्पदमुपात्तम् । तथा च महानसीयधूमसंयोगेऽपि हेत्वधिकरणीभूतायोगोलकानुयोगिकत्वसामान्याभावस्य सत्वात् उभयाभावो वर्तते एव । यत्किचित्पदेन केवलस्यायोगोलकस्य शक्यग्रहणकत्वात् । अयोगोलकानुयोगिकसंयोगेषु च धूमाभावप्रतियोगिधूमप्रतियोगिकत्वसामान्याभावस्य सत्वात् तेष्वपि उभयाभावो वर्तते । धूमप्रतियोगिक-संयोगेभ्यः अयोगोलकानुयोगिकसंयोगेभ्यश्च भिन्ना ये संयोगा तेषु तु उभयाभावस्य सुतरां सत्वात् सर्वत्र संयोगसामान्ये उभयाभावो मीलितः । तथा च साध्याभावस्यैव लक्षणघटकत्वान्नातिव्याप्तिः ।
यन्द्रशेपरीया : (१) हातमा ४ यिियत् त्वपि:२९.....भ. २८। यिियत पहनुण बतावे छे. જો એ પદ ન લખો તો હેવધિકરણસામાન્યાનુયોગિકત્વસામાન્યાભાવ લેવો પડે અને તો પછી ધૂમવાનું વડમાં ધૂમસંયોગમાં ધૂમપ્રતિયોગિકત્વ+ધૂમાધિકરણ-પર્વતાઘનુયોગિકત્વ બે ય છે. એટલે ધૂમસંયોગમાં તમામહત્વથિકરણાનુયોગિકત્વનો અભાવ મળવાનો જ નથી. અને તેથી ધૂમાભાવ લક્ષણ ઘટક ન બનતા અતિવ્યાપ્તિ આવે. યત્કિંચિત્ તરીકે તો માત્ર અયોગોલક લઈએ એટલે ધૂમસંયોગમાં અયોગોલકાનુયોગિકત્વસામાન્યનો અભાવ મળી જતા સંયોગસામાન્યમાં ઉભયાભાવ મળી જાય. પરિણામે અતિવ્યાપ્તિ ન આવે.
ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
जागदीशी - 'निरुक्त पदस्य छद्मतः फलमाह, - चैत्रान्यत्वेति । 'निरुक्त पदानुक्तौ 'चैत्रान्यत्वविशिष्टतद्दण्डवानेतद्दण्डा' दित्यत्र चैत्रवृत्त्येतद्दण्डसंयोग एव,-चैत्रान्यत्वविशिष्टै
तद्दण्डाभावप्रतियोगिप्रतियोगिकत्वहेत्वधिकरणी-भूत-चैत्रानुयोगिकत्वोभयाभावविरहा - त्तादृशदण्डाभावस्य लक्षणाघटकतयाऽतिव्याप्तिः स्यात्-,
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૪૯
1010000000