________________
दीधिति:१९
અતિવ્યાપ્તિ આવે જ.
जागदीशी - पर्वत-वह्निसंयोगस्य हेतुमद्वह्निवृत्तित्वेऽपि,-वह्नयनुयोगिकसम्बन्धत्वविरहेण तत्र तादृशोभयाभावसत्वात् ।
Ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
चन्द्रशेखरीया : किन्तु तदनुयोगिकत्वस्य तवृत्तित्वात्मकार्थकरणे तु न एष दोषः संभवति । यतो यदि 'वह्निः वह्निसंयोगेन वह्निमान् पर्वतमान् वा इति प्रमात्मिका प्रतीतिर्भवेत् तदा वह्निसंयोगे वह्निधर्मिकयथार्थज्ञानविषयी-भूतसंसर्गत्वं भवेत् न च तादृशी प्रमात्मिका प्रतीतिः भवतीति वह्निसंयोगे तादृशसंसर्गत्वात्मकस्य वह्नि-अनुयोगिकत्वस्याभाव एव वर्तते । तथा च संयोगसामान्ये वह्निप्रतियोगिकत्ववह्निरूपाधिकरणवह्नि-अनुयोगिकत्वोभयाभावस्य वर्तमानत्वात् वह्नयभाव एव लक्षणघटको भवतीति नातिव्याप्तिः संभवति ।
ચન્દ્રશેખરીયા પણ હવે વહિન-અનુયોગિકત્વ વનિવૃત્તિત્વ અર્થ કરતા જ નથી. વહિનધર્મિક એવી યથાર્થપ્રતીતિનો વિષયીભૂત સંબંધ એ જ વહિન-અનુયોગિક તરીકે લઈએ છીએ. હવે ‘વનિઃ સંયોગેન વનિમા” કે “વનિઃ સંયોગેન પર્વતમાનું આવી પ્રતીતિ સાચી થાય. તો તે પ્રતીતિ વનિધર્મિક બને. અને તેનો વિષયીભૂત સંબંધ વનિ-પર્વતસંયોગ બને. પણ આવી સાચી પ્રતીતિ થતી નથી, માટે પર્વતવનિસંયોગમાં વનિધર્મિયથાર્થપ્રતીતિવિષયસંબંધત્વરૂપ વહિન-અનુયોગિકસંબંધત્વનો અભાવ હોવાથી ઉભયાભાવ મળી જતાં વહુન્યભાવ જ લક્ષણઘટક બની ગયો. માટે સમવાયેન વહિનરૂપતુક એવા સંયોગેન વહિનસાધ્યકસ્થળે અતિવ્યાપ્તિ ન આવે.
domimmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmms
जागदीशी - इदन्त्ववधातव्यं यत्रैकसंयोगव्यक्त्या यत्पदार्थयोः परस्परं विशिष्टधीः प्रमा, तत्र तयोरेकस्मिन् संयोगेन साध्ये तदीयरूपादौ व्यभिचारिण्यतिव्याप्तिः, तदुभयसंयोगस्य निरुक्तोभयाभावविरहादिति ॥१९॥
__चन्द्रशेखरीया : एवं तावत् दीधितिकृता पूर्वपक्षखंडनं कृतम् । किन्तु जगदीशोऽत्र लक्षणे त्रुटिं दर्शयति "इदन्त्ववधातव्यमि"त्यादिना । अयं भावः यथा यदा दक्षिणहस्तप्रथमाङ्गुली वामहस्तप्रथमाङ्गल्याः उपरिष्टात् स्थाप्यते, तदैव च वामहस्तप्रथमाङ्गली दक्षिणहस्तप्रथमाङ्गल्याः उपरिष्टात् स्थाप्यते । तदा "वामप्रथमाङ्गली दक्षिणप्रथमाङ्गलीवती" "दक्षिणप्रथमाङ्गली वामप्रथमाङ्गलीवती" इति प्रतीतिद्वयं संभवति । अत्र च द्वयोरङ्गल्योः मध्ये एक एव संयोगः । तस्मिन् संयोगे वामहस्तप्रथमाङ्गलीधर्मिकयथार्थज्ञानविषयीभूतसंसर्गत्वात्मकं वामप्रथमाङ्गली-अनुयोगिकत्वं वर्तते । एवं तस्मिन्नेव संयोगे दक्षिणहस्तप्रथमाङ्गलीधर्मिकयथार्थज्ञानविषयीभूतसंसर्गत्वात्मकं दक्षिणप्रथमाङ्गली-अनुयोगिकत्वं अपि वर्तते । एवं च एतादृक्संयोगे
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૪૦