________________
दीधिति: १९
સાધ્યાભાવ આવી ગયો એટલે હવે તાદાત્મ્યથી ઘટાભાવપ્રતિયોગિઘટનું અધિકરણ એવા યાવત્ હેત્વધિકરણ=તત્ક્ષણુકિિધ બનતું જ નથી. ઘટ એ તાદાત્મ્યથી તત્ક્ષણુકમાં નથી રહેતો એટલે ઘટાભાવ એ તદન્ય.... અભાવ તરીકે લઈ શકાશે અર્થાત્ તાદાત્મ્યથી સ્વપ્રતિયોગી અધિકરણ-યાવત્વધિકરણક એવા અભાવથી અન્ય તરીકે ધટાભાવાદિ લેવાશે. તેની પ્રતિયોગિતાનો અનવચ્છેદક તત્ક્ષણુકદધિવૃત્તિત્વ
વિશિષ્ટદધિત્વ બની જાય. આમ લક્ષણ ઘટી જતા અવ્યાપ્તિ વગેરે ન આવે. નવીનોના મતમાં જે વિસ્તાર કર્યો છે તે વિવૃત્તિટીકાને અનુસારે છે એમ જાણવું.
આમ અમારા ગુરુઓ અને નવીનોએ પૂર્વપક્ષની સામે ઉત્તર આપ્યો. દીધિતિકાર શું ઉત્તર આપે છે, તે હવે भेजे.
दीधिति:
मैवं, साध्यतावच्छेदकसम्बन्धसामान्ये, - निरुक्तप्रतियोगिप्रतियोगिकत्व,— हेत्वधिकरणीभूतयत्किञ्चिद्वक्त्यनुयोगिकत्वसामान्योभयाभावस्य विवक्षितत्वात् ॥१९॥
जगदीशी - तादृशसम्बन्धसामान्य इति । अस्य पूर्ववदर्थो बोध्यः । क्वचित्साध्यतावच्छेदक सम्बन्ध - सामान्ये' इत्येव पाठः । विवक्षितत्वादिति । अभावान्तमूलग्रन्थेनेत्यादिः,
तथा च साध्यतावच्छेदक सम्बन्धसामान्ये, — यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्व- हेत्वधिकरणीभूतयत्किञ्चिद्व्यक्त्यनुयोगिकत्वसामान्यो भयाभावस्तादृश- प्रतियोगितानवच्छेदकीभूतसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं व्याप्तिरित्यर्थः 1
चन्द्रशेखरीया : अत्रोच्यते । साध्यतावच्छेदकसम्बन्धसामान्ये निरुक्तप्रतियोगिप्रतियोगिकत्वहेत्वधिकरणीभूतयत् किंचिद्व्यक्ति-अनुयोगिकत्वसामान्योभयाभावस्य विवक्षितत्वात् न दोषः । अस्यायमर्थः । यावन्तः साध्यतावच्छेदकसम्बन्धाः तेषु सर्वेषु यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वसामान्यहेत्वधिकरणीभूतयत्किंचिद्व्यक्त्यनुयोगिकत्वसामान्योभयाभावः विद्यते । तादृशप्रतियोगितानवच्छेदकं यत् साध्यतावच्छेदकं तदवच्छिन्नेन साध्येन सह सामानाधिकरण्यं हेतौ व्याप्तिः । 'वह्निमान् धूमादि 'त्यत्र यावन्तः संयोगाः साध्यतावच्छेदकसम्बन्धरूपाः, तदन्तर्गतेषु पर्वतीयवह्निसंयोगादिषु वह्नि–अभावप्रतियोगितावच्छेदकवह्नित्वावच्छिन्न- वह्निप्रतियोगिकत्वं वर्तते । अतः तेषु तादृशप्रतियोगिकत्वसामान्यस्याभावो न वर्तते । एवं तेष्वेव संयोगेषु हेत्वधिकरणीभूतपर्वतानुयोगिकत्वं वर्तते, अतः तादृशानुयोगिकत्वसामान्याभावोऽपि न वर्तते
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૧૨૪