________________
दीधिति:१९
ચન્દ્રશેખરીયાઃ અહીં, તાદશસંબંધન=એ દીધિતપદનો પ્રતિયોગિતાવચ્છેદક સંબંધ એમ જો અર્થ કરો, તો ય વાંધો નથી. પણ તેમાં પછી આગળ પ્રતિયોગિતા એ સાધ્યતાવચ્છેદકસંબંધાવચ્છિન્ન જ લેવાની. આમ “સાધ્યતાવચ્છેદકસંબંધાવચ્છિશા યા હેવધિકરણીભૂતકિચિવ્યક્તિનિરૂપિતવૃત્તિતા, તદભાવવાનું પ્રતિયોગિતાવચ્છેદકવિશિષ્ટશ્વ પ્રતિયોગી સામાન્ય યસ્ય સ તાદશડભાવઃ એવ લક્ષણઘટક, તસ્ય તાદેશપ્રતિયોગિતાનવચ્છેદકં સાધ્યતાવચ્છેદકમ્” અથવા “પ્રતિયોગિતાવચ્છેદક... વૃત્તિતા, તદભાવવતુ સાધ્યતાવચ્છેદક સંબંધાવચ્છિન્ન પ્રતિયોગિતાવચ્છેદકવિશિષ્ટ પ્રતિયોગી સામાન્ય યસ્ય... સાધ્યતાવચ્છેદક” એ અર્થ લેવાનો છે
जागदीशी - 'तादृशसम्बन्धेने 'त्यस्य फलमाह, - सत्तादीति । विषयताया वृत्त्यनियामकत्वमते, सत्त्ववति घटादौ ज्ञानाभावस्य सहजत एव प्रतियोगिवैयधिकरण्यं सम्भवतीत्यतः, - संयोगसामान्यस्य चेति ।
नातिप्रसङ्ग इति । - 'ज्ञानवान्' - संयोगवान् - वा सत्त्वा'दित्यादौ नातिप्रसङ्ग इत्यर्थः ।
Ammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
चन्द्रशेखरीया : अत्र यदि 'तादृशससम्बन्धेन' इति पदं नोच्यते । तदा तु 'ज्ञानवान् सत्तायाः' इति अत्रातिव्याप्तिर्भवेत् । ज्ञानाभावस्य ज्ञानात्मकं प्रतियोगि सत्ताधिकरणगुणादिनिरूपितायाः विषयतासम्बन्धावच्छिन्नायाः वृत्तितायाः अभाववत् न भवति, ज्ञानस्य विषयतासम्बन्धेन गुणादौ वृत्तित्वात् । अतो ज्ञानाभावो लक्षणघटको न भवेत् । किन्तु अतीतघटाभाव एव । तस्य प्रतियोगी अतीतघट: गुणादौ कालिकादिना केनापि सम्बन्धेन न वर्तते । अतः कालिकाद्यवच्छिन्नायाः सत्ताधिकरणगुणनिरूपितवृत्तितायाः अभाववत् एव अतीतघटत्वावच्छिन्नातीतघटसामान्यं भवति । तथा च घटाभावमादाय लक्षणघटनादतिव्याप्तिर्भवेत् । साध्यतावच्छेदकसम्बन्धावच्छिन्नायाः तादृशवृत्तितायाः निवेशे तु न दोषः । ज्ञानाभावप्रतियोगि ज्ञानं समवायवच्छिन्नायाः सत्ताधिकरणगुणनिरूपितायाः वृत्तितायाः अभाववदेव भवति । अतो ज्ञानाभावस्यैव लक्षणघटकत्वात् नातिव्याप्तिर्भवेत् । न च विषयतासम्बन्धस्य वृत्यनियामकत्वेन ज्ञानं गुणादौ विषयतासम्बन्धेन वर्तमानं न वक्तुं शक्यम् । अतो ज्ञानाभावप्रतियोगि ज्ञानसामान्यं गुणादिनिरूपितायाः समवायाद्यवच्छिन्न-प्रतियोगितायाः अभाववदेव । अतः साध्यतावच्छेदकसम्बन्धावच्छिन्नवृत्तिताया अनिवेशेऽपि नातिव्याप्तिः भवति । साध्याभावस्यैव लक्षणघटकत्वात् इति वाच्यम् तथापि 'संयोगवान् सत्तायाः' इत्यत्रातिव्याप्तिर्भवेत्। संयोगाभावप्रतियोगि संयोगसामान्यं सत्ताधिकरणद्रव्यनिरूपितायाः समवायावच्छिन्नवृत्तितायाः अभाववदपि न भवति । संयोगस्य द्रव्ये समवायेन वर्तमानत्वात् सत्ताधिकरणगुणकर्मनिरूपितायाः कालिकावच्छिन्नवृत्तितायाः अभाववद् अपि च न भवति । कालिकेन संयोगस्य गुणादौ वर्तमानत्वात् । तथा च साध्याभावस्य लक्षणाघटकत्वात् अतीतघटाभावादिकं आदाय लक्षणसमन्वयात् अतिव्याप्तिर्भवत्येव । साध्यतावच्छेदकसम्बन्धावच्छिन्नवृत्तितानिवेशे तु नैष दोषः संयोगाभावप्रतियोगि संयोगसामान्यं गुणनिरूपितायाः साध्यतावच्छेदक-समवाय-अवच्छिन्नायाः गुणत्वादिजातिनिष्ठवृत्तिताया अभाववदेव भवति इति साध्याभावस्यैव लक्षणघटकत्वादतिव्याप्तिर्न भवति ।
amithmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૦૩