________________
दीधितिः५
܀܀
܀܀
܀
܀܀
܀
܀
܀܀܀
܀܀
܀
यावदन्तर्गतः तत्र नास्ति इति हेतोः वृक्षेऽसत्वात् स्वरूपासिद्धिदोषः । संयोगीयानां यावतां संयोगाभावानां एव हेतुत्वात् ।। वृक्षे च एकस्य गगनसंयोगाभावस्यासत्वात् यावत्संयोगाभावा न मीलन्ति इति भावः । કે ચન્દ્રશેખરીયા: પૂર્વપક્ષ આમ સંયોગના જેટલા વિશેષાભાવી છે તે તમામ વૃક્ષમાં હોવાથી તેમાં સંયોગ સામાન્યાભાવ પણ સિદ્ધ થઈ જાય છે.
મધ્યસ્થ: વૃક્ષાદિમાં સર્વાવયવાવચ્છેદન=સમગ્ર વૃક્ષમાં વ્યાપીને રહેલો એક જ ગગનસંયોગ છે. દરેક અવયવોમાં ગગનસંયોગ જુદો માનવામાં તો લાખો ગગન સંયોગ માનવા પડે. એમાં તો ગૌરવ છે. આમ વૃક્ષવાવચ્છેદન ગગનસંયોગનો અભાવ તો ન જ મળે. એટલે વૃક્ષમાં તમામે તમામ સંયોગોનો અભાવ ન મળવાથી સંયોગસામાન્યાભાવની સિદ્ધિ ન થાય. એટલે કે હેતુ પક્ષમાં ન રહેવાથી સ્વરૂપાસિદ્ધિદોષ આવે. અને તેથી આ અનુમાન ખોટું છે.
܀܀
܀
܀
܀
܀܀܀܀
܀܀
܀
܀܀
܀
܀
܀܀
܀
जागदीशी -- अतिप्रसङ्गभङ्गाय शाखादितत्तदवयवावच्छिन्नवृत्तिकसंयोगं प्रति तत्तदवयवत्वेन, हेतुत्वस्यावश्यकतया वृक्षे व्याप्यवृत्तिगगनसंयोगस्यासम्भवादिति भावः।
܀܀܀܀
܀
܀
܀܀܀
܀
܀
܀
܀܀
܀
܀܀
܀
܀܀
܀܀܀
܀܀
܀
܀܀
܀܀
܀
܀
. चन्द्रशेखरीयाः पूर्वपक्षः समादधाति-यदि वृक्षः एव शाखावच्छिन्नस्य कपिसंयोगात्मकस्य कार्यस्य कारणं भवेत् ।। तर्हि वृक्षे कारणता भवेत् । तथा च वृक्षे मूलावच्छेदेनापि कपिसंयोगात्मकं कार्यं स्यात्, तत्र वृक्षात्मकस्य कारणस्य सत्वात् । न च भवति । तथा च अन्यावयवे उत्पद्यमानस्य कार्यस्य अन्यावयवे उत्पत्त्यापत्तिनिवारणाय इदमेव मन्तव्यं यत् न वृक्षः कपिसंयोगादिनां कारणं, किन्तु शाखा शाखीयसंयोगकारणं । मूलं मूलीयसंयोगकारणं । तथा च मूले शाखात्मककारणाभावात् न तत्र शाखीयसंयोगोत्पत्त्यापत्तिः । इत्थं च शाखादितत्तद्वयवावच्छिन्नवृत्तिकं संयोगं प्रति शाखादितत्तदवयवाः एव स्वतन्त्रानि कारणानि अवश्यं स्वीकर्तव्यानि । तथा च मूलवृत्तिकं गगनसंयोगं प्रति मूलमेव कारणं । शाखावृत्तिकं गगनसंयोगं प्रति शाखैव कारणं इति प्रत्यवयवं गगनसंयोगो भिन्न एव मन्तव्यः । तथा च वृक्षे सर्वावयवच्छेदेनैकस्यैव गगनसंयोगस्य सिद्धिः न संभवति । तथा च वृक्षे वृक्षत्वावच्छेदेन संयोगीयानां यावतां विशेषाभावानां सत्वात् न स्वरूपासिद्धिः।
तथा च वृक्षे संयोगीययावद्विशेषाभावहेतोः सत्वात् तत्र संयोगीयसामान्याभावोऽपि सिद्ध्यति । इत्थं च मूलोक्तव्याप्तिलक्षणे प्रतियोग्यसमानाधिकरणपदानुपादाने "संयोगी द्रव्यत्वात्" इति अत्राव्याप्तिः भवति । यतः द्रव्यत्वाधिकरणे वृक्षादौ निरुक्तरीत्या संयोगसामान्याभावः सिद्ध्यति । तत्प्रतियोगितावच्छेदकमेव साध्यावच्छेदकं इति भवति अव्याप्तिः ।। प्रतियोग्यसमानाधिकरणपदनिवेशे तु कपिसंयोगादिमति वृक्षे वर्तमानः संयोगसामान्याभावः स्वप्रतियोगिसमानाधिकरण एव, न तु व्यधिकरणः इति न स गृह्यते । अतः घटाभावमादाय लक्षणसमन्वयः । इत्थं च→ केवलं "कपिसंयोगी एतवृक्षत्वात्" इति अत्रैव अव्याप्तिवारणाय प्रतियोग्यसमानाधिकरणपदं । नतु "संयोगी द्रव्यत्वात्" इति अत्र अव्याप्तिवारणाय प्रतियोग्यसमानाधिकरणपदं"- इति यत् भवतोच्यते । तन्न सम्यक् । यतः उभयस्मिन्नपि अनुमाने
܀
܀܀
܀
܀
܀܀
܀܀
܀
܀
܀
܀
܀܀
܀
܀
܀܀
܀
܀
܀
܀
܀
܀܀
܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ ૯૮૭
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀