________________
दीधिति: ५
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
કારણ છે. ત્રીજી ક્ષણે તો પ્રતિ પ્રત્યક્ષ છે જ. એટલે તે ક્ષણે પ્રતિબંધકાભાવરૂપ કારણ ન હોવાથી સંયોગાભાવપ્રત્યક્ષ થવાની આપત્તિ ન આવે.
ઉત્તરપક્ષ: કોઈપણ દ્રવ્યમાં સંયોગસામાન્યનો અભાવ માનવામાં કોઈ પ્રમાણ જ નથી.
दीधिति
न च 'यो यदीययावद्विशेषाभाववान् स तत्सामान्याभाववानिति व्याप्तेः,
पक्ष
संयोगयावद्विशेषाभावा एव मानं ।
1201
SOBUS
जगदीशी -- न च इति । - मानमिति परेणान्वयः । यो यदीयेति । यो यज्जातिसमानाधिकरणोभयावृत्तिधर्म्मावच्छिन्न-यत्सम्बन्धावच्छिन्नप्रतियोगिताकयावदभाववान् स तज्जात्यवच्छिन्नतत्सम्बन्धावच्छिन्नप्रतियोगिताकाभाववान् इत्यर्थः । तेन न स्वरूपासिद्धिः न वा सिद्धसाधनं ।
चन्द्रशेखरीयाः ननु वृक्षे वृक्षत्वावच्छेदेन संयोगसामान्याभावसाधकं अनुमानं प्रमाणं अस्ति एव । तथा हि- वृक्ष: : संयोगसामान्याभाववान् संयोगनिष्ठप्रतियोगिताकानां यावत् संयोगविशेषाभावानां अधिकरणत्वात् । यत्र: यत्प्रतियोगिताकानां यावतां यद्विशेषाभावानां सद्भावः तत्र तत्प्रतियोगिताकः तत्सामान्याभावः इति व्याप्तिः । यथा भूतले तत्तद्घटप्रतियोगिताकानां यावतां घटविशेषाभावानां सद्भावः तत्र घटसामान्याभावः अस्ति एव । एवं च वृक्षेऽपि सर्वेषां संयोगविशेषाभावानां मूलाद्यवच्छेदेन सत्वात् वृक्षत्वावच्छेदेन वृक्षे संयोगसामान्याभावः सिध्यति ।
यद्यपि घटवति भूतले घटपटोभयस्य अभावः अस्ति । तथा च तत्र यावद्विशेषाभावानां सत्वात् घटसामान्याभावानामसत्वात् व्यभिचारो भवति तथापि अनन्तरमेव वक्ष्यमाणं परिष्कारसंयुतं निरूपणं निर्दोषं भवति । तथा हियः यज्जातिसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नयत्सम्बन्धावच्छिन्नप्रतियोगिताकयावदभाववान् स तज्जात्यवच्छिन्नतत्सम्बन्धावच्छिन्नप्रतियोगिताकाभाववान् इति व्याप्तिः । अस्य अर्थः । यज्जातिः घटत्वं, तत्समानाधिकरणः = घटत्वाधिकरणे : विद्यमानः, उभयावृत्तिः = उभयस्मिन् अविद्यमानश्च यः तद्घटत्वादिधर्मः, तद्धर्मावच्छिन्नाः यत्सम्बन्धेन= साध्यतावच्छेदकसम्बन्धेन = संयोगादिना अवच्छिन्नाः याः प्रतियोगिताः, तन्निरूपकाः यावन्तोऽभावाः = तत्तद्घटाभावाः । तद्वान् यः भवति, स "घटत्वजात्यवच्छिन्ना संयोगसम्बन्धावच्छिन्ना या प्रतियोगिता" तन्निरूपकाभाववान्=घटसामान्याभाववान् भवति ।
एवं च संयोगत्वजात्यधिकरणे विद्यमानाः उभयस्मिन् अविद्यमानाश्च तत्कपिसंयोगत्व-तद्घटसंयोगत्व-तत्पटसंयोगत्वादयो: अवच्छिन्नाः समवायसम्बन्धावच्छिन्नाश्च याः तेषु संयोगेषु विद्यमानाः प्रतियोगिताः, तासां निरूपकाः
धर्माः ।
.......
**************
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૭૪
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀