________________
दीधितिः२
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
नास्तीत्यादिप्रतीत्या तत्ताविशिष्टदण्डव्यक्तेरेवावच्छेदकत्वं युक्तं, दण्डी नास्तीत्यादिप्रतीत्यन्यथानुपपत्त्या दण्डस्यावच्छेदकत्वसिद्धौ प्रमेयदण्डवान् नास्तीत्यादावपि तन्मात्रावच्छेदकत्वेनैव सामञ्जस्ये विशिष्टस्य तत्रावच्छेदकत्वाकल्पनात् तथा च कथमुक्ताव्याप्तिरित्युच्यते।
, चन्द्रशेखरीयाः अत्रास्मत्सम्बन्धी कश्चित् आह पूर्वपक्षेण यदुक्तं→"तदंडी नास्ति" इत्यादिप्रतीत्या तदंड्यभावप्रतियोगितायाः अवच्छेदकः केवलं तत्तोपलक्षितः दंड एव । तेन दंडिसाध्यकेऽव्याप्तिः इत्यादिस्तत्। तुच्छम् । यतो यत्र दंडिसंयोगाधिकरणे "तदंडी नास्ति" इति प्रतीतिः भवति । तत्र "दंडी नास्ति" इति प्रतीतिर्न भवति । यदि च इमे प्रतीती समाने स्तः । तर्हि यत्र एका तत्र द्वितीयाऽपि भवितुं अर्हति । न च भवति । तस्मात् अनयोः । प्रतीत्योः मध्ये कश्चिद् भेदो वक्तव्यः। स च अयमेव यदुत दंड्यभावप्रतियोगितायाः अवच्छेदकः दंडः, तदंड्यभावप्रतियोगितायाः अवच्छेदकस्तत्ताविशिष्टदंडः एव । न तु शुद्धः तत्तोपलक्षितो दंडः । एवं च तत्ताविशिष्टदंडनिष्ठा प्रतियोगितावच्छेदकता साध्यतावच्छेदकतावच्छेदकदंडत्व-तदितरतत्तोभयावच्छिन्ना । तेन सा प्रतियोगिता न लक्षणे प्रविष्टा इति अन्यामादाय लक्षणसमन्वयसंभवः । अतः अत्र दंडस्य साध्यतावच्छेदकत्वेऽपि क्षतिविरहात् दंडत्वस्य परम्परासम्बन्धेन साध्यतावच्छेदकत्वनिरूपणं दीधितिकृतं व्यर्थमिव प्रतिभाति । यच्च पूर्वपक्षेण प्रोक्तंत्र्यदि तत्ताविशिष्टदंडः । प्रतियोगितावच्छेदको मन्यते तर्हि "प्रमेयदंडी नास्ति" इति अत्रापि प्रमेयत्वविशिष्टदंडः एव प्रतियोगितावच्छेदको मन्तव्यः स्यात् । न च मन्यते । तस्मात् तत्दंड्यभावप्रतियोगितावच्छेदकोऽपि शुद्धदंड एव मन्तव्यः' इत्यादि । तत्तु स्वनिष्ठदेवानांप्रियतासूचकम् । यतः यत्र दंड्यभाववति भूतले "दंडी नास्ति" इति प्रतीतिः भवति । तत्र दंडः एव प्रतियोगितावच्छेदको मन्तव्यः । तत्रैव च "प्रमेयदंडी नास्ति" इत्यपि प्रतीतिर्भवति । तत्रापि लाघवात् दंडः एव प्रतियोगितावच्छेदकः अवगन्तव्यः । यतो अनयोर्द्वयोः प्रतीत्योः मध्ये यत्र एका भवति, तत्र नियमेन द्वितीया भवितुं शक्या । अतः इमे प्रतीती कथंचित् समाने । अतः अत्र दंडस्यैव प्रतियोगितावच्छेदकत्वाभिमानं न दुष्टम् । दंडिसंयोगाधिकरणे तु "तदंडी नास्ति" इति प्रतीतिः अस्ति । "दंडी नास्ति" इति प्रतीतिस्तु नास्ति । तेन तयोः द्वयोः मध्ये भेदः स्पष्ट एव । स च प्रागेव प्रदर्शितः । अतः सम्यगभिधानं अस्माभिःकृतम् । एवं च दंडिसाध्यके अव्याप्तेः निरवकाशत्वात्। दंडत्वस्य परंपरासम्बन्धेन साध्यतावच्छेदकत्वादिपरिष्कारो व्यर्थः एव इति । હું ચન્દ્રશેખરીયાઃ પ્રશ્નઃ ભલે તમે દંડત્વને દંડને બદલે અવચ્છેદક બનાવીને આપત્તિ દૂર કરો. પણ ખરેખર તો એની જરૂર જ નથી. પૂર્વપક્ષે જે દલીલ કરેલી કે "જેમ પ્રમેયદંડી-અભાવની પ્રતિયોગિતાનો અવચ્છેદક પ્રમેયત્વથી ઉપલક્ષિત એવો દંડ જ બને છે. તેમ તતુદંડી-અભાવની પ્રતિતાનો અવચ્છેદક પણ તત્તાથી ઉપલક્ષિત દંડને જ માનવાનો. તત્તાવિશિષ્ટ દંડને ન માનવાનો" એ દલીલ તદ્દન વાહિયાત છે. એનું કારણ એ છે કે દડિસંયોગવાળા ભૂતલાદિમાં "દડી નાસ્તિ" એવી પ્રતીતિ થતી જ નથી. "તત્ તતુ-દંડી નાસ્તિ" એવી જ પ્રતીતિ થાય છે. આનો અર્થ એ કે "આ બે પ્રતીતિમાં કોઈક તફાવત તો છે જ." જો બેય પ્રતીતિ સરખી હોત તો જ્યાં "તદંડી નાસ્તિ" પ્રતીતિ થાય ત્યાં "દંડી નાસ્તિ" પ્રતીતિ પણ થવી જોઈએ. પણ થતી નથી. માટે આ બે વચ્ચે
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૩૪
ܘܰ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀