________________
दीधितिः
भयत्वावच्छिन्नाभावानतिरेकात्।
. चन्द्रशेखरीया: ननु भवतु नाम विशिष्टत्वं उभयत्वं च परस्परं भिन्नमेव । तथापि विशिष्टत्वावच्छिन्नाभावः उभयत्वावच्छिन्नाभावाद् अभिन्नः एव मन्तव्यः । यतो भूतत्वविशिष्टमूर्तत्वत्वावच्छिन्नतादृशविशिष्टमूर्तत्वाभावः पृथ्वीचतुष्कभिन्नेषु सर्वेषु पदार्थेषु वर्तते । एवं भूतत्वमूर्तत्वोभयत्वावच्छिन्नतादृशोभयाभावोऽपि पृथ्वीचतुष्कभिन्नेषु सर्वेषु पदार्थेषु वर्तते । तथा च द्वयोः समव्यापकत्वात लाघवात् ऐक्यमेव उचितम् । एवं च यदि विशिष्टाभावो लक्षणघटको मीलितः, तदा स एव उभयाभावः । तत्प्रतियोगितावच्छेदकं तु विशिष्टत्वभिन्नमपि उभयत्वं भवत्येव इति नातिव्याप्तिः संभवति इति चेत् ? ચન્દ્રશેખરીયાઃ સાર્વભૌમ: વિશિષ્ટત્વ અને ઉભયત્વ ભલે જુદા હો, પણ વિશિષ્ટવાવચ્છિન્ન અભાવ અને ઉભયત્નાવચ્છિન્ન-અભાવ તો એક જ છે. એટલે મૂર્તત્વાધિકરણ મનમાં ભલે ઉભયાભાવ એ લક્ષણઘટક ન બને તો પણ વિશિષ્ટાભાવ તો લક્ષણ ઘટક બને જ છે. અને એ અભાવ ઉભયત્નાવચ્છિન્ન-અભાવથી જુદો નથી એટલે વિશિષ્ટાભાવની પ્રતિયોગિતાનો અવચ્છેદક ઉભયત્વ બની જતાં અતિવ્યાપ્તિ ન આવે. માટે પેલા પરિષ્કારની જરૂર નથી.
जागदीशी -- अत आह *न वेति । तदवच्छिन्नाभावः =उभयत्वावच्छिन्नाभावः । तदवच्छिन्नाभावात वैशिष्ट्यावच्छिन्नाभावात् । लिङ्गव्यत्ययेन ‘अनतिरिक्तः।' इत्यनुषज्यते तथा चातिरिक्त एवेत्यर्थः ।
चन्द्रशेखरीयाः न, विशिष्टत्वावच्छिन्नाभावः उभयत्वावच्छिन्नाभावात् भिन्नः एव मन्तव्यः । वैशिष्ट्यविरहेऽपि उभयत्वावच्छिन्नप्रतियोगिताकाभावस्य प्रत्यक्षसिद्धत्वात् । । अत्र विस्तरतो निरूपणकरणपूर्वमेव एषा स्पष्टता कर्तव्या । दीधित्याम् "उभयत्वं हि न विशिष्टत्वादनतिरिक्तं नः वा तदवच्छिन्नाभावस्तदवच्छिन्नाभावात्, वैशिष्ट्यविरहेऽपि घटत्वपटत्वयोः उभयत्वस्य उभयत्वेन तदभावस्य च प्रत्यक्षसिद्धत्वात्" इति ग्रन्थः। - अस्य स्पष्टार्थः अयम्-उभयत्वं विशिष्टत्वात् अनतिरिक्तं न इति, अर्थात् अतिरिक्तमेव । कथमिति चेत् इत्थं । वैशिष्ट्यविरहेऽपि उभयत्वस्य प्रत्यक्षसिद्धत्वात् । एवं उभयत्वावच्छिन्नाभावः। वैशिष्ट्यावच्छिन्नाभावात् भिन्नः एव । कथमिति चेत् इत्थं । वैशिष्ट्यविरहेऽपि उभयत्वावच्छिन्नाभावस्य प्रत्यक्षसिद्धत्वात् ।।
अयं भावः उभयत्वं विशिष्टत्वात् भिन्नमेव । यतो घटत्वविशिष्टपटत्वस्य प्रतीतिर्न भवति । किन्तु "घटत्वपटत्वोभयं घटपटयोः स्तः" इति घटत्वपटत्वोभयस्य प्रमात्मिका प्रतीतिर्भवति । यदि हि घटत्वपटत्वोभयं घटत्वविशिष्टपटत्वात् अभिन्नं भवेत्, तदा तु उभयप्रतीतिवत् उभयाभिन्नविशिष्टप्रतीतिरपि भवेत्, न च भवति । अतः ज्ञायते यत् उभयत्वं विशिष्टत्वात् भिन्नमेव । अयमेवार्थः "वैशिष्ट्यविरहेऽपि घटत्वपटत्वयोरुभयत्वस्य प्रत्यक्षसिद्धत्वात्" इति ग्रन्थेन, दीधित्यां प्रतिपादितः। एवं घटत्वपटत्वोभयत्वावच्छिन्नाभावोऽपि घटत्वविशिष्टपटत्वाभावात् भिन्न एव ।।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૪૭
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀