________________
दीधितिः५ Rokkk.............................................................. 1 जागदीशी -- न चाभिघातादि (संयोग) सामान्याभावस्य वृक्षे सत्त्वात् तत्र (च) निरवच्छिन्नवृत्तिकत्वविशिष्टस्य तदीययावद्विशेषाभावस्यासत्त्वादेवोपाधेः साध्याव्यापकत्वमिति वाच्यम्;
: चन्द्रशेखरीयाः ननु तथापि "वृक्षः अभिधातसामान्याभाववान् अभीघातीययावद्विशेषाभाववत्वात्।" इति: अत्र अभिघातत्वजातिमात्रावच्छिन्नप्रतियोगिताकः अभिघातसामान्याभावः एव साध्यः । युष्मन्मतानुसारेणात्रोपाधिःकथ्यते ।। किन्तु न स मीलति । वृक्षे अभिघातसामान्याभावस्तु युष्माकमपि अभिमत एव । किन्तु तत्र शब्दजनकसंयोगस्वरूपा: कर्करासंयोगाद्यात्मकोऽभिघातो मूलाधवच्छेदेन वर्तते । अतः तत्र विद्यमानाः अभिघातीययावद्विशेषाभावाः। शाखाद्यवच्छिन्नवृत्तिकाः एव । नतु निरवच्छिन्नाः। तथा च तत्र निरवच्छिन्नवृत्तिकत्वविशिष्टानां अभिघातीययावद् विशेषाभावानामसत्वात् अयं उपाधिः साध्यव्यापको न भवति इति चेत्।।
ચન્દ્રશેખરીયાઃ પૂર્વપક્ષ: શબ્દજનક સંયોગ એ અભિવાત કહેવાય. અને વૃક્ષમાં અભિઘાતસામાન્યનો અભાવ છે. શબ્દજનક એવો કાંકરા વિગેરેનો સંયોગ મૂલાવચ્છેદેન છે છતાં તેનો પણ શાખાદિ-અવચ્છેદન અભાવ તો છે જ. આમ ત્યાં સાધ્ય રહી ગયું. આ અભાવ એ અભિઘાતત્વજાતિમાત્રાવચ્છિન્ન પ્રતિયોગિતાક પણ છે. છતાં આ વૃક્ષમાં નિરવચ્છિન્નવૃત્તિકવિશિષ્ટ-અભિઘાત-યાવતુ-વિશેષાભાવ તો નથી જ. કેમકે એ બધા જ અભાવો મૂલાદિ-શાખાદિ-અવચ્છિન્નવૃત્તિકત્વવાળા જ છે. આમ આ સ્થાને તમારી ઉપાધિ સાધ્યઅવ્યાપક બને છે.
जागदीशी -- गुणविभाजकजातेरेव हेतुसाध्ययोः प्रवेशात्।
। चन्द्रशेखरीयाः तर्हि "गुणविभाजकजातिमात्रावच्छिन्न प्रतियोगिताकसामान्याभावसाध्यकस्थले एव उपाधिं वयं प्रतिपादयामः" इति बोद्धव्यम् । अभिघातत्वं तु न गुणविभाजकजातिः । अतःतत्र न वयं उपाधि प्रतिपादयामः । किन्तु गुणविभाजक संयोगत्वादिजातिमात्रावच्छिन्नप्रतियोगिताकसंयोगादिसामान्याभावसाध्यकस्थले एव उपाधिं प्रतिपादयामः ।। तत्र च स मीलत्येव इति न कश्चिद् दोषः। - इदमत्र हृदयम् । पूर्वपक्षः यदीययावद्विशेषाभावहेतुना सह तदीयसामान्याभावस्य व्याप्तिं दर्शयित्वा संयोगसामान्याभावं, वृक्षे साधितवान् । उत्तरपक्षस्तु तत्र निरवच्छिन्नवृत्तिकत्वविशिष्टं यदीययावद्विशेषाभावत्वं उपाधिं उक्तवान् । पूर्वपक्षः निषेधं करोति-यत् कपिसंयोगसामान्याभावसाध्यकस्थले स उपाधिः निरवच्छिन्नवृत्तिकत्वविशिष्टकपिसंयोगीययावद् । विशेषाभाववत्वस्वरूपसाध्यव्यापको न भवति इति । उत्तरपक्षः प्राह यत्-वयं जातिमात्रावच्छिन्नप्रतियोगिताकाभावस्थले एवोपाधिं प्रतिपादयामः इत्यादि । पुनः पूर्वपक्षः प्रश्नयति यत्-अभिधातसामान्याभावो जातिमात्रावच्छिन्नाभाव एव ।। तथा च तत्र युष्माकं मतेन उपाधिर्भवेत् । किन्तु तत्रापि स उपाधिः साध्यव्यापको न भवति इत्यादि । तत्र उत्तरपक्षः समादघाति-वयं केवलं गुणविभाजकोपाधिमात्रावच्छिन्नप्रतियोगिताकसामान्याभावसाध्यकस्थले एवोपाधि प्रतिपादयामः !
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ ૯૯૨
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀