________________
૨૦૬ કોણ છે?” અનુમાનથી પણ ન જણાય. એ માત્ર ઉપમાનપ્રમાણથી જણાય. માટે ઉપમાન એ સ્વતંત્ર પ્રમાણ છે.)
॥ इत्युपमानपरिच्छेदः ॥
' શબ્દ પરિચ્છેદ
मूलम् : आप्तवाक्यं शब्दः। आप्तस्तु यथार्थवक्ता। वाक्यं पदसमूहः। यथा गामानयेति। शक्तं पदम्। अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः॥
આપ્તપુરુષોવડે ઉચ્ચરિત વાક્યને શબ્દપ્રમાણ કહેવાય છે. જે યથાર્થ = સત્ય બોલે તેને सप्तपुरुष डेवाय छे. ५होन। समुडने वाध्य पाय छे..त.→ 'गामानय' इत्यादि पाच्य छ ॥२९॥ ॐ 'गाम्' अने 'आनय' बने ५६ ही साथे प्रयुत छ. ५४ार्थनो बोध કરાવવામાં જે શક્તિવાળું છે, તેને પદ કહેવાય છે. “આ પદથી આ પદાર્થનો બોધ કરવો એ પ્રમાણેનો જે ઇશ્વરસંકેત છે, તેને શક્તિ કહેવાય છે.
(न्या.)(शब्दं लक्षयति-आप्तेति।आप्तोच्चरितत्वे सति वाक्यत्वंशब्दस्य लक्षणम्। प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम्। वाक्यत्वमात्रोक्तावनाप्तोच्चरितवाक्येऽतिव्याप्तिरत आप्तोच्चरितत्वनिवेशः। तावन्मात्रोक्तौ जबगडदशादावतिव्याप्तिरतो वाक्यत्वम्। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यवसन्नोऽर्थः।) पदज्ञानं करणम्। वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिापारः। वाक्यार्थज्ञानं शाब्दबोधः फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम घटादिविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारकेश्वरसंकेतः।ईश्वरसंकेतो नाम ईश्वरेच्छा। सैव शक्तिरित्यर्थः। शक्तिनिरूपकत्वमेव पदे शक्तत्वम्। विषयतासंबन्धेन शक्त्याश्रयत्वं शक्यत्वम्। शक्यसंबंधो लक्षणा। सा द्विविधा-गौणी शुद्धा चेति। गौणी नाम सादृश्यविशिष्टे लक्षणा यथा 'सिंहो माणवक' इत्यादौ सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा। शुद्धा द्विविधा-जहल्लक्षणा अजहल्लक्षणा चेति। लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा 'गङ्गायां घोष' इत्यत्र गङ्गापदवाच्यप्रवाहसंबन्धस्य तीरे सत्त्वात्तादृशशक्यसंबन्धरूपलक्षणाज्ञानाद् गङ्गापदात्तीरोपस्थितिः। लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा 'काकेभ्यो दधि रक्ष्यता' मित्यत्र काकपदस्य दध्युपघातके लक्षणा। लक्ष्यतावच्छेदकं दध्युपघातकत्वम्, तेन रूपेण दध्युपघातकानां सर्वेषां काकबिडालकुक्कुटसारमेयादीनां शक्यलक्ष्याणां सर्वेषां बोधात्। जहदजहल्लक्षणा वेदान्तिनां मते। (सा च शक्यतावच्छेद