________________
देवीमानसपूजा । श्रीमंत्रमातृकापुष्पमाला।
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि
द्वीपे कल्पकवाटिकापरिवृत्ते कादम्बवायुज्वले । रत्नस्तम्मसहस्रनिर्मितसभामध्ये विमानोतमे
चिन्तारत्नविनिर्मित जननि ते सिंहासनं भावये ॥१॥ एणाङ्कानलभानुमण्डललसच्छीचक्रमध्ये स्थितां ____ बालार्कातिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् । चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमुकुटां चारुस्मितां भावये ॥२॥ ईशानादिपदं शिवैकफलक रत्नासन ते शुभं
पाद्य कुंकुमचन्दनादिभरितरध्यं सरत्नाक्षतैः । शुद्धराचमनीयकं तव जलभक्त्या मया कल्पित ___ कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्षताम् ॥३॥ लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयाम्बुपटीरकुंकुमल कपूरमिश्रोदकैः । गोक्षीरैरपि नारिकेलसलिलै: शुद्धोदकैमन्त्रितैः
स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ।।४।। ह्रींकाराङ्कितमन्त्रलक्षिततनो हेमाचलासंचितैः
रनरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् । मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूदुभव
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ।।५।।