________________
इति पुष्पाञ्जलि दत्वा पूर्ववत् पानं पुनःपुनरादायाचमनोक्त मन्त्रैः तत्त्वानि शोधयेत् । यथा-ऐं ह्रीं श्री मूलं प्रथमखज्डं आत्मतत्त्वेन स्थूलदेह परिशोधयामि । ३ मूलं द्वितीयखण्डं विद्यातत्त्वेन सूक्ष्मदेह परिशोधयामि । ३ मूल तृतीयखण्डं शिवतत्वेन कारणदेह परिशोधयामि । ३ समग्रमूलं सर्वतच्वेन महाकारणदेह परिशोधयामि ।
__ अथ प्रथमपात्रस्वीकारे एवोत्थान यथासंप्रदाय सर्व पात्रस्वीकारेऽपिा स्त्रीणां तूत्थायैव । अत्र गुरोस्तच्छक्तिसुतज्येष्ठकनिष्ठानां द्रव्याद्युपपादनं यथासंप्रदाय विधेयम् । इति तत्त्वशोधनम् ।
अथ उद्वासनम् । सामान्याोदकात् किञ्चिज्जलमादाय
साधु वा साधु वा कम यद्यदाचरितं मया ।
तत्सघ कृपया देवि गृहाणाराधनं मम ।। इति देव्या वामहस्ते समर्प्य सामयिकमात्मानं च मुलेन संप्रोक्ष्य शंखं प्रक्षाल्य निदध्यात् ।
ततो मूलेन तीर्थ निर्माल्यं स्वीकृत्यज्ञानतोऽज्ञानतो वापि यन्मयाचरितं शिवे ।
तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ।। इति क्षमाप्य सर्वासामावरणदेवतानां श्रीदेव्यङ्गे ल्यं विभाव्य खेचरी बद्धवा उद्वास्य तेजोरूपेण परिणतां श्रीदेवी पूर्ववत् हृदये नीत्वा तत्र च मृति पचधोपचर्य पुनरात्माभिन्नं संविद्रपेण, विभावयेदित्युद्वासनम् । ततः शान्तिस्तवं पठेत् ।